This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
श्यायजलं दुहानाः क्षरन्त्यः विश्वतः सर्वतः प्रपीताः धर्मार्थ-
कामैराप्यायिताः । प्यायः पी आदेशः । एवं परोक्षं प्रार्थ्य
प्रत्यक्षमाह । हे उषसः, यूयं स्वस्तिभिः अविनाशैः सदा नो-
स्मान् पात पालयत ॥ ४० ॥
 
एकचत्वारिंशी
 
त्रिचत्वारिंशी ।
 
५७१
 
त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑गो॒पा अदा॑भ्यः ।
अति॒ धर्म॑णि धा॒रय॑न् ॥ ४३ ॥
 
उ०
 
त्रीणि पदा । वैष्णव्यौ गायत्र्यौ । द्वाभ्यामेकवा-
 
पूप॒न् तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑च॒न । क्यम् । यः विष्णुः यज्ञः त्रीणि पदानि । विचक्रमे क्रान्तवान्
 
स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ ४१ ॥
 
उ० पूषन् तव । द्वे पौष्ण्यौ गायत्री त्रिष्टुभौ । हे पूषन्,
तव व्रते कर्मणि वर्तमाना वयम् न रिष्येम न विनश्येम कदा
चन कदाचिदपि । अन्यच्च स्तोतारोऽपि । ते तव इह स्मसि ।
स्म । 'इदन्तो मसि' इतीकार उपजनः ॥ ४१ ॥
 
,
 
म० द्वे पौष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन् तव व्रते
कर्मणि वर्तमाना वयं कदाचन कदापि न रिप्येम न विन-
श्येम । किंच इह कर्मणि ते तव स्तोतारः स्तुतिकर्तारः स्मसि
भवामः । इदन्तो मसि ॥ ४१ ॥
 
द्विचत्वारिंशी
 
प॒थस्प॑थ॒ परि॑पतं वच॒स्या कार्मेन कृतो अभ्या
नर्कम् । स नौ रासच्छुरुष॑श्च॒न्द्रमा॒ धियं॑
धिय सीषधाति॒ प्र पूषा ॥ ४२ ॥
 
उ० पथस्पथः । यः पथस्पथः मार्गस्य परिपतिम्
अधिपतिमित्युपसर्गव्यत्ययः । वचस्या वचनेन वेदोक्तेन अभि-
मुखीकृतः । कामेन इच्छया च अभिमुखीकृतः । अभ्या-
नट् । आन शिर्व्याप्तिकर्मा । अभिव्याप्नोति । अर्कम् । सः नः
अस्मभ्यम् रासत् ददातु । शुरुधः । पूर्वपदान्तलोपः । शुचं
संतापं साधनाभावकृतं यानि रुधन्ति साधनानि भवन्ति
तानि तथोक्तानि विव्यच्य व्यत्ययेन । चन्द्राग्राः । तान्येव
विशिष्यन्ते । चायनीयाग्राणि । धियं धियं प्रसीषधाति ॥
साधतिः कर्मवचनः प्रसाधयतु । पूपा ॥ ४२ ॥
 
म० यः पूषा अर्क देवमभ्यानट् अभिव्याप्नोति । किंभूतः
कामेन काम्यत इति कामं तेन वाञ्छितेन वचस्या वचसा
वेदोक्तेन कृतः अभिमुखीकृतः । किंभूतमर्कम् । पथस्पथः
मार्गस्य मार्गस्य सर्वेषां मार्गाणां परिपतिमधिपतिं स्वामिनम् ।
 
अग्निवाय्वादित्याख्यानि । गोपाः गोपायिता समस्तस्य जगतः ।
अदाभ्यः अनुपर्हिस्यः । अतः अस्मादेव पदत्रयात् धर्माणि ।
धर्मशब्द उभयलिङ्गः अर्धर्चादौ गणे पठितः । धर्मान्
धारयन् । कर्मपर्यायो वा । अतः एभ्यः पदेभ्यः कर्माणि
धारयन् ॥ ४३ ॥
 
वैष्णव्यौ गायत्र्यौ द्वयोर्क चोरेकवाक्यम् । यो विष्णुः
म०
यज्ञः त्रीणि पदा पदानि विचक्रमे विक्रान्तवान् अभिवावा-
दित्याख्यानि पदानि व्याप्तवान् । किंभूतो विष्णुः । गोपाः
जगतो रक्षकः । अदाभ्यः अहिंस्यः । किं कुर्वन् । अतः
अस्मादेव पदत्रयात् धर्माणि पुण्यानि कर्माणि धारयन् । धर्म-
मस्त्रियाम् ॥ ४३ ॥
 
चतुश्चत्वारिंशी ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वास॒ः समि॑न्धते ।
विष्णोर्यत्प॑र॒मं प॒दम् ॥ ४४ ॥
 
I
 
उ० तद्विप्रासः तस्य विष्णोर्यज्ञस्य यत् परमं पदं ब्रह्म-
लक्षणम् । तत् । विप्रासः ब्राह्मणाः विपन्यवः मेधाविनः ।
जागृवांसः असुप्ताः अप्रमत्ताः । ज्ञानकर्मसमुच्चयकारिणः ।
समिन्धते संदीपयन्ति उपासनैर्निर्मलीकुर्वन्ति ॥ ४४ ॥
 
म० तस्य विष्णोः यज्ञस्य यत्परमं पदं ब्रह्मलक्षणम् तद्वि-
प्रासः विप्राः ब्राह्मणाः समिन्धते । णिचो लोपः । समिन्धयन्ति
दीपयन्ति । उपासते इत्यर्थः । किंभूताः विप्राः । विपन्यवः
विगतः पन्युः संसारव्यवहारो येभ्यः निष्कामाः । जागृवांसः
जागरणशीलाः अप्रमत्ताः 1 ज्ञानकर्मसु समुच्चयकारिण
इत्यर्थः ॥ ४४ ॥
 
पञ्चचत्वारिंशी ।
 
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियोर्वी पृथ्वी म॑धुदुर्धे
सः पूषा नोऽस्मभ्यं शुरुधः शुचं रुन्धन्ति वर्णनाशात् पृषोद- । सु॒पेश॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्कभिते
 
।दित्वात् शोकनाशकराणि साधनानि रासत् ददातु । लिङ्गव्य-
त्ययः । किंभूताः शुरुधः । चन्द्राग्राः चन्द्रमाह्लादकमयं यासां
ताः । साधने कृते आह्लादो भवति । पुनः पूषा वियं धियं
कर्माणि सर्वाणि प्रसीषधाति प्रकर्षेण साधयतु । पथस्पथः
धियं धियमिति 'नित्यवीप्सयो:' ( पा० ८ । १ । ४ ) इति
द्विलम् । वचस्या विभक्तैर्यादेशः । आनद व्याप्तिकर्मसु दश
स्वयं पठितः । सीपधाति 'साध संसिद्धा' शपः छान्दसः
दिलम् । 'लेटोऽडाटी' 'तुजादीनां दीर्घाऽभ्यासस्य' उपधा
 
न्हखरछान्दसः ॥ ४२ ॥
 
1
 
अ॒जरे॒ भूरि॑रेतसा ॥ ४५ ॥
 
उ० घृतवती । द्यावापृथिवीया जगती । ये द्यावापृथि-
व्यौ घृतवत्यौ उदकवत्यौ । भुवनानामभिश्रिया भूतजाता-
नामभ्याश्रयणीये । उर्वी विस्तीर्ण । पृथ्वी पृथुले । मधु-
दुधे मधु उदकं तस्य दोग्ध्यौ । सुपेशसा सुरूपे । ते वरुण-
स्यादित्यस्य धर्मणा धारणेन । विष्कम्भिते । स्कनोतिर्हढी-
करणार्थः । दृढीकृते अजरे जरारहिते । भूरिरेतसा बहुरे-
तस्के । सर्वभूतानां हि रेतांसि ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥