2026-02-20 06:10:03 by ambuda-bot
This page has not been fully proofread.
५६८
अष्टाविंशी ।
शुक्लयजुर्वेदसंहिता ।
उभा पि॑बतमश्विनोभा नः॒ शर्म॑ यच्छतम् । अवि॒-
प्रि॒याभि॑रू॒तिभि॑ः ॥ २८ ॥
उ० उभा पिबतम् । आश्विन्यस्तिस्रः एका गायत्री द्वे
त्रिष्टुभौ । उभौ सोमं पिबतम् हे अश्विनौ, पीत्वा च सोमम्
उभावपि नः अस्मभ्यम् शर्म शरणं प्रयच्छतं दत्तम् । किंच
अविद्वियाभिः 'दृ विदारणे'अविदीर्णाभिः अनवखण्डिताभिः
ऊतिभिरवनैः रक्षतमिति शेषः ॥ २८ ॥
[ चतुस्त्रिंशोऽध्यायः ३४ ]
७३ ) इति शपि लुप्ते लोण्मध्यमद्विवचने रूपम् । वृषणा वृषणौ
'वा षपूर्वस्य निगमे' ( पा० ६ । ४ । ९ ) इत्युपधादीर्घा -
भावः । वृधे वर्धनं वृत् संपदादिलाद्भावे क्विप् ॥ २९॥
त्रिंशी ।
द्युभि॑र॒क्तुभिः॒ परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौ--
गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒
सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥ ३० ॥
उ० बुभिरतुभिः बुभिरहोभिः कारणभूतैः अक्तुभिः
म० आश्विन्यस्तिस्रः एका गायत्री द्वे अनुष्टुभौ । हे अक्तू रात्रिः रात्रिभिश्व कारणभूताभिः । अधिकरणविवक्षा
अश्विना अश्विनौ, उभा उभौ द्वावपि युवां पिबतम् । सोम वा । काले हि द्युषु रात्रिषु वा । परि सर्वतः पातं परिपा-
मिति शेषः । उभा द्वौ युवां नोऽस्मभ्यं शर्म शरणं सुखं वा लयतम् युवाम् अस्मान् । न केवलं द्युभिरतुभिः परि-
यच्छतम्। काभिः सह । अविद्रियाभिः अविदीर्णाभिः अख- पातम् । किं तर्हि । अरिष्टेभिः अनुपहिंसितैः हे अश्विनौ,
ण्डिताभिः ऊतिभिः अवनैः पालनैः सह । सुखं दत्तं पालयतं । सौभगेभिः । भग इति धननाम । शोभनैश्च धनैः । योज-
चेत्यर्थः । उभा अश्विना विभक्तेराकारः । विदीर्यन्तीति । यतमित्यध्याहारः । तत् नः अस्माकम् मित्रः वरुणश्च माम-
विद्रियाः 'दृ विदारे' औणादिक इयक्प्रत्ययः ॥ २८ ॥
एकोनत्रिंशी ।
अन्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नौ दस्रा वृषणा
मनी॒षाम् । अ॒द्य॒त्येऽव॑से॒ निष॑ये वां वृ॒धे च॑ नो
भव॑तं॒ वाज॑सातौ ॥ २९॥
।
उ० अप्रस्वतीम् । अम इति कर्मनाम । कर्मवतीम् हे
अश्विनौ, वाचम् अस्मे अस्माकम् कृतं कुरुतम् । किंच नः
अस्माकम् हे दस्त्रौ दर्शनीयौ हे वृषणौ वर्षितारौ, युवाना-
वित्यर्थः । मनीषां मनसः संबन्धिनीमिच्छां च । अम्नस्व-
तीमेव कृतम् । कस्मात्पुनरहमेवं ब्रवीमि । यतः अद्यूत्ये
अवसे द्यूते भवमवसमन्नं द्यूत्यम् द्यूतादागतं कर्मण्यं
न भवति अत एवमुच्यते । अद्यूत्ये अन्ने निमित्तभूते ।
निये वाम् आह्वयामि युवाम् । आगत्य च । वृधे वर्धनाय
च नः अस्माकं भवतम् । वाजसातौ वाजसं भजननिमित्त-
भूते संग्रामे च यज्ञे वा वर्धनायैव भवतम् ॥ २९॥
हन्तां पूजयन्ताम् । अदितिश्च सिन्धुश्च पृथिवी च उत
अपिच द्यौः ॥ ३० ॥
। ।
रात्रिभिः सप्तम्यर्थे तृतीया । दिवसेषु रात्रिषु च अहोरात्रम्
म० हे अश्विना अश्विनौ, द्युभिः दिवसैः अक्तुभिः
अस्मान् परिपातं सर्वतो रक्षतम् । कैः । सौभगेभिः सौभगैः।
भग इति धननाम । शोभनैः धनैः । किंभूतैः । अरिष्टेभिः
अनुपहिंसितैः अखण्डितैर्धनैरस्मान्रक्षतमित्यर्थः । किंच मित्रः
वरुणः अदितिः सिन्धुः समुद्रः उतापि च द्यौः एते नोऽस्माकं
तत् भवत्कृतं रक्षणं मामहन्तां पूजयन्ताम् । अनुमन्यन्ता-
मित्यर्थः । द्युरित्यहो नाम अक्तुरिति रात्रेः । मामहन्ताम्
'मह पूजायाम्' 'बहुलं छन्दसि' ( पा० २ । ४ । ७६ )
इति शपः 'छुः । 'ही' (पा० ६ । १ । १० ) द्विलम् 'तुजा -
दीनां दीर्घेोऽभ्यासस्य' ( पा० ६ । १।७ ) इत्यभ्यास-
दीर्घः
॥ ३० ॥
एकत्रिंशी ।
आ कृष्णेन॒ रज॑सा॒ वर्तमानो निवे॒शय॑न्न॒मृतं॒
भुव॑नानि॒ पश्य॑न् ॥ ३१ ॥
उ० आकृष्णेनेति व्याख्यातम् ॥ ३१ ॥
म० हे अश्विना अश्विनौ, हे दखा दर्शनीयौ हे वृषणा । मर्त्यं च । हिर॒ण्यये॑न सवि॒ता रथे॒नादे॒वो या॑ति॒
वर्षितारौ सेक्तारौ युवानौ, अस्मे अस्माकं वाचम् अप्नस्वतीं
कर्मवतीं युवां कृतं कुरुतम् । तथा नोऽस्माकं मनीषां मनस
इच्छामनखतीमेव कुरुतम् । मनसा वचसा च यज्ञं कुर्मस्तथा
कुरुतमित्यर्थः । यतो ह वां युवां निह्वये आह्वयामि । किंनि-
मित्तम् । अद्यूत्ये सन्मार्गागते अवसे अन्ने अन्ननिमित्तम्
तद्दानार्थमित्यर्थः । द्यूतादागतं द्यूते भवं वा द्यूत्यम् न द्यूत्य-
म० व्याख्याता ( अ० ३३ क० ४३ ) ॥ ३१ ॥
द्वात्रिंशी ।
आ रा॑त्र॒ पार्थि॑व॒ रज॑ः पि॒तुर॑प्राय॒ धाम॑भिः ।
मथूल्यम् तस्मिन् द्यूतादागतं कर्मण्यं न भवतीत्येवमुच्यते दिवः सदा॑सि बृह॒ती विति॑ष्ठस॒ आ त्वे॒वं व॑र्तते॒
द्यूतमन्येषामप्यन्याय्यधनागमानामुपलक्षकम् । किंच वाज-
सातौ वाजानामन्नानां सातिः संभजनं यस्मिन् स वाजसातिः । तमः ॥ ३२ ॥
तस्मिन् यज्ञे नोऽस्माकं वृधे वृद्धौ भवतम् । अस्मे विभक्तेः
शेआदेशः । कृतम् करोतेः 'बहुलं छन्दसि' ( पा० २ । ४ ।
उ० आरात्रि रात्रिदेवत्या बृहती । हे रात्रि, या त्वम् आ
अप्रायि आअपूपुरः आपूरयसि । पार्थिवं रजः पृथिवीसंबन्धि-