This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
छत्रिणो गच्छन्तीतिवत् । यश्च योजना योजनानि योजन
गव्यूतिक्रोशादीनध्वपरिमाणविशेषान्व्यख्यत् । यश्च सप्त सिन्धू-
न्समुद्रान्क्षीरोदाद्यान्व्यख्यत् । उपलक्षणमेतत् । सर्वजगत्प्रका -
शकः सविता रत्नानि ददान आयात्वित्यर्थः । अख्यत् 'ख्या
प्रकथने' 'अस्यतिवक्तिख्यातिभ्योऽङ्' ( पा० ३ । १ । ५२ )
इति च्लेरब् आलोपश्च धातूनामनेकार्थत्वादत्र प्रकाशनार्थो ।
ग्राह्यः । ली योजना 'सुपां सुलुक्' ( पा० ७ । १ । ३९ ) इत्या-
दिना पूर्वसवर्णदीर्घो विभक्तेः । धन्व सुपो लुक् । रत्ना सुप
आकारः । दाशुषो 'दाश्वान्साह्वान्' ( पा० ६ । १ । १२ ) ।
इति निपातः । वार्याणि 'ऋहलोयंत्' ( पा० । ३ । १ ।
१२४ ) इति वृणोतेत् ॥ २४ ॥
 
पञ्चविंशी ।
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒ द्यावा॑पृ-
थि॒वी अ॒न्तरी॑यते । अपामी॑वा॒ बाध॑ते॒ वेति॒ सूर्य॑-

म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृणोति ॥ २५ ॥
 
उ० हिरण्यपाणिः सविता । सुवर्णपाणिः सविता ।
विचर्षणिः विविधं यष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावा.
पृथिवी अन्तः । अधिकरणश्रुतेर्योग्यक्रियाया अध्याहारः ।
मध्ये स्थितः ईयते एति यदा । अथ तदा अपामीवां बाधते
rai व्याधिम् । वेति विगतिकर्मा । गच्छति सूर्य सूर्य-
रूपमवस्थाय । ततोऽस्तमनकाले । अभिकृष्णेन रजा
थामृणोति । अभिऋणोति अभिव्याप्नोति । कृष्णेन रजसा
तमोलक्षणेन । द्यां द्युलोकम् ॥ २५ ॥
 
म० सविता प्रसविता सूर्यं सूर्यः विभक्तिव्यत्ययः । उभे
उभयोः द्यावापृथिवी द्यावापृथिव्योः अन्तर्मध्ये ईयते आग-
च्छति यदा तदा अमीवां व्याधिमपबाधते अन्धकारलक्षणरोगं
निवर्तयति । अथ यदा वेति अस्तमयसमये गच्छति तदा
कृष्णेन रजसा अन्धकारलक्षणेन यां द्युलोकमभि ऋणोति
अभिव्याप्नोति । कीदृशः सूर्यः । हिरण्यपाणिः सुवर्णपाणिः ।
विचर्षणिः विविधं द्रष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावा -
पृथिवी । षष्ठ्यर्थे द्वितीया । अन्तर्योगे वा । ईयते ' ईङ् गतौ'
दिवादिः ॥ २५ ॥
 
षड्विंशी ।
 
हिर॑ण्यहस्त॒ असु॑रः सुनी॒थः सुमृडीकः स्ववाँ
यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्या॑दे॒वः
प्र॑तिर्दोषं गृ॑णा॒नः ॥ २६ ॥
 

 
उ० हिरण्यहस्तः द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते साम-
र्थ्यात् । यः अपसेधन् अपगमयन् रक्षसः यातुधानांश्च असु
खकारकान् । अस्थात् उदस्थात् । देवः प्रतिदोषं गृणानः
श्रुतिस्मृतिविहितधर्म पराङ्मुखानां यावन्तो दोषास्तावतः
स्तुवन् उच्चारयन् गणयन् उपभोगार्थमित्यभिप्रायः । सोऽयं
 
५६७
 
। सविता हिरण्यहस्तः हिरण्यदानार्थं हस्तौ यस्य स तथोक्तः ।
रूपेण वा स्तुतिः । असुरः 'रा दाने' असून्प्राणान्ददाती -
त्यसुरः । सुनीथः । नीथा स्तुतिः । कल्याणस्तुतिः । सुम्मृ-
डीकः साधु सुखयिता । स्ववान् । आत्मीयज्ञातिधनवचनः
स्वशब्दः । यातु आयातु । अर्वाङ् अर्वागञ्चनः अस्मान-
भिमुखः ॥ २६ ॥
 
म० यो देवो रविः रक्षसो राक्षसान् यातुधानान् असु-
खकरांश्च अपसेधन् अपगमयन्सन् अस्थादुदस्थात् तदेति स
देवः अर्वाङ् अर्वागञ्चनः अस्मदभिमुखः यातु आयात्वित्यर्थः ।
कीदृशो देवः । हिरण्यहस्तः हिरण्यं दानार्थं हस्ते यस्य स
तथोक्तः । रूपेण वा स्तुतिः । असुरः असून् प्राणान् राति ददा-
तीत्यसुरः । सुनीथः नीथा स्तुतिः कल्याणस्तुतिः । सुमृडीकः
साधु सुखयिता स्ववान्धवान् । प्रतिदोषम् प्रतिजनं यो
दोषास्तावतः गृणानः उच्चारयन् उपभोगार्थमित्यभिप्रायः ।
दो॒षः प्रतिदोषः तम् । श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो
 
स्ववान् यातु इत्यत्र 'दीर्घादटि समानपादे' ( पा० ८ । ३ । ९ )
इति नस्य रुले 'भोभगोअघोअपूर्वस्य योऽशि' ( पा० ८ ।
३ । १७ ) तस्य रोर्यादेशे 'हलि सर्वेषां ' ( पा० ८ । ३ । २२ )
तस्य लोपः । सक्षस्शब्दस्य व्यत्ययेनाक्लीबत्वम् ॥ २६ ॥
सप्तविंशी ।
 
ये ते॒ पन्था॑ः सवितः पू॒र्व्याऽर॒णव॒ः सुकृ॑ता
अ॒न्तरि॑क्षे । तेभि॑नो॑ अ॒द्य प॒थभि॑ः सु॒गेभी रक्ष च
नो॒ अधि॑ च ब्रूहि देव ॥ २७ ॥
 

 
उ० ये ते पन्थाः । ये ते तव पन्थाः पन्थान इति वच-
नव्यत्ययः । हे सवितः पूर्व्यासः पूर्वेष्वपि कालेषु भवाः ।
अरेणवः अपांसुलाः । सुकृताः साधुकृताः धात्रा अन्तरिक्षे ।
तेभिः तैः नः अस्मान् अद्य नयेति शेषः । पथिभिः सुगेभिः
साधुगमनैः अन्नपानप्रभूतैर्गच्छतः रक्षा च रक्ष च नः
अस्मान् । अधि च ब्रूहि अङ्गीकृत्य च ब्रूहि । यथा एते
अस्मदीया इति । यद्वा यदस्माकं हितं पथ्यं तदधिब्रूहि
उपदिश । हे देव, दानादिगुणयुक्त ॥ २७ ॥
 

 
म० हे सवितः हे देव, पन्थाः पन्थानो मार्गः अन्तरिक्षे
सुकृताः साधुकृताः धात्रा वर्तन्ते । कीदृशास्ते । पूर्व्यासः पूर्वेषु
कालेषु भवाः पूर्व्याः । अरेणवः नास्ति रेणुर्यत्र
तेभिः तैः पथिभिः मार्गेः नोऽस्मान् अय नयेति शेषः । च पुनः
गच्छतो नोऽस्मान् रक्ष पालय । अधिब्रूहि च अधि अङ्गीकृत्य
ब्रूहि एते मदीया इति । यद्वा अधिब्रूहि उपदिशास्माकं यद्धितं
पथ्यं तत् । यद्वा अधि अधिकान् वद एते महायाज्ञिका दातार
इत्यादि । किंभूतैः पथिभिः । सुगेभिः सुगैः सुखेन गम्यते
येषु सुगाः तैः अन्नपानप्रभूतैरित्यर्थः । अधिकरणे गच्छतेर्ड-
प्रत्ययः । पूर्वैः पूर्व्यासः कृताः 'पूर्वैः कृतमिनियौ च' ( पा०
४ । ४ । १३३ ) इति यप्रत्ययः ॥ २७ ॥