This page has not been fully proofread.

५६६
 
· शुक्लयजुर्वेदसंहिता ।
 
विदथो यज्ञस्तत्र साधुम् । सभेयं सभामर्हति समेयस्तम् । पितृ-
श्रवणं पितरं शृणोति पितृश्रवणः पित्राज्ञाकारिणं विनीतमित्यर्थः ।
कर्मण्यमित्यादौ 'तत्र साधुः' ( पा० ४ । ४ । ९८ ) इति
यत् । समेयं 'ढश्छन्दसि' ( पा० ४ । ४ । १०६ ) इति सभायाः
साध्वर्थे ढप्रत्ययः । तस्येयादेशः ( पा० ७ । १ । २ ) । ददा-
शत् 'दाट दाने' 'बहुलं छन्दसि' ( पा० २ । ४ । ७६ ) इति
शपः श्लुः द्वित्वम् 'इतश्च लोपः परस्मैपदेषु' ( पा० । ३ । ४ ।
९७ ) इति तिप इलोपः । 'लेटोऽडाटौ ' ( पा० ३ । ४ । ९४ ) ।
 
इत्यडागमः ॥ २१ ॥
 
द्वाविंशी ।
 
त्वमि॒मा॒ ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जन-
य॒स्त्वं गाः । त्वमात॑तन्थो॒र्व॒न्तरि॑क्षं त्वं ज्योति॑षा॒
वितम ववर्थ ॥ २२ ॥
 
उ० त्वमिमाः । हे सोम, त्वम् इमाः ओषधीः विश्वाः
सर्वाः अजनयः जनितवानसि । त्वम् अपः अजनयः । त्वं च
गाः अजनयः । त्वम् आततन्थ आततवानसि । उरु विस्तीर्णम-
न्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ विवृणोषि तमः ।
त्वमेवादित्यात्मना तमोऽपनयसि । सर्वात्मत्वेन स्तुतिः ॥ २२॥
 
म० हे सोम, लमिमाः विश्वाः सर्वाः ओषधीः अपो जलानि
गाः धेनूः अजनयः जनितवानसि । मुरु विस्तीर्णमन्त-
रिक्षमाततन्थ विस्तारितवानसि । त्वं च ज्योतिषा तेजसा तमो-
ऽन्धकारं विववर्थ विवृणोषि । आदित्यात्मना सर्व तमोऽपनय-
सीति सर्वात्मा त्वमित्यर्थः । 'बभूथाततन्थजगृम्भववर्थेति-
निगमे' ( पा० । ७ । २ । ६४ ) इति निपातः ॥ २२ ॥
त्रयोविंशी ।
 
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भाग संह-
साव॒न्न॒भियु॑ध्य । मा त्वात॑न॒दीशि॑षे वी॒र्य॑स्य॒ोभये॑भ्य॒
प्रचि॑िकित्सा वि॑ष्टौ ॥ २३ ॥
 
[ चतुस्त्रिंशोऽध्यायः ३४ ]
 
म० हे देव, सोम, हे सहसावन् बलवन्, देवेन मनसा
देवसंबन्धिना मनसा सह रायो धनस्य भागं नोऽस्मभ्यमभि-
युध्य । युध्यतिर्गतिकर्मा अन्तर्भावितण्यर्थः । अभिगमय देही -
त्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित् मा आतनत् त्वा मां आतनोतु
मा प्रतिबध्नातु । तनोतिः प्रतिबन्धार्थः । कुतस्त्वमेवमुच्यस
इति चेत् यतस्त्वं वीर्यस्य ईशिषे वीरकर्मण ईश्वरो भवसि 'अधी-
गर्थदयेशाम्' (पा० । २ । ३ । ५२ ) इति कर्मणि षष्ठी । किंच
गविष्टौ गोः स्वर्गस्य इष्टौ इच्छायां स्वर्गैषणायां विषयभूतायां
समामुभयेभ्यः प्रचिकित्स उभयलोकप्राप्त्यर्थं चिकित्सां कुरु
व्याध्यपगमं कुरु । उभयलोकप्रतिबन्धकं विघ्नं निवर्तयेत्यर्थः ।
दैवं मनः प्राप्य लब्धधना अरोगाश्च सत्कर्म कुर्वाणा यथा
स्वर्गं यास्यामस्तथा कुर्विति वाक्यार्थः । देवेन देवानामिदं देवम्
तद्धितप्रत्ययलोपः । सहसावन् प्रथमार्थे तृतीया । सहसा सहो
बलमस्यास्तीति सहसावान् अलुक् । तनत् तनोतेः परस्य
।लेटोऽडागम इलोपश्च । चिकित्स ' गुप्तिङ्काः सन् ' ( पा०
३ । १ । ५ ) 'अन्येषामपि दृश्यते ' ( पा० ६ । ३ । १३७ )
इति दीर्घः ॥ २३ ॥
 
चतुर्विंशी ।
 
अ॒ष्टा॒ व्य॑ख्यत्क॒कुभ॑ः पृथि॒व्यास्त्रीधन्व॒ योज॑ना
स॒प्त सिन्धून् । हि॒र॒ण्य॒क्षः स॑वि॒ता दे॒व आगाद्दध-
द्रत्ना॑ दा॒शुषे॒ वार्याणि ॥ २४ ॥
 
अष्टौ
उ० व्यख्यत् । चतस्रः सावित्र्यः द्वितीया जगती
त्रिष्टुभोऽन्याः । यः अष्टौ व्यख्यत् प्रकाशितवान् ककुभः
दिशः । चतस्रो दिशः चतस्रोऽवान्तरदिशः । पृथिव्याः संब-
न्धिनीः । त्रीधन्व त्रीणि धन्वानीति शब्दसमाधिः । धन्व
इत्यन्तरिक्षनाम तदुपलक्षितावितरावपि लोकौ गृह्येते छत्रिणो
यान्तीति यथा । यश्च त्रीन् लोकान् व्यख्यत् । यश्च योज-
नानू योजनगव्यूतिक्रोशादीन् मानविशेषान् व्यख्यत् । यश्च
सप्तसिन्धून् सप्तसमुद्रान् व्यख्यत् । सोऽयं हिरण्याक्षः
हिरण्यसदृशाक्षः अमृतदृष्टिर्वा सविता देवः आगात् आग-
च्छतु किं कुर्वन्नित्यत आह । दधत् स्थापयन् रत्ना रत्नमयानि
धनानि । दाशुषे हवींषि दत्तवते यजमानाय । वार्याणि
वरणीयानि ॥ २४ ॥
 
उ० देवेन नः । दैवेनेति प्राप्ते तद्वितलोप छान्दसः ।
दैवेन मनसा सह नः अस्मभ्यम् । रायो भागं धनस्य भागम् ।
सहःशब्दो बलवचनः सान्तः तत्र अकारागमश्छान्दसः ।
हे सहस्वन्, अभियुध्य । युध्यतिर्गत्यर्थानां मध्ये पठ्यते
अन्तर्भावितण्यर्थश्च गृह्यते । अभिगमय देहीत्यर्थः । एवं म० चतस्रः सावित्र्यः द्वितीया जगती विष्टुभोऽन्याः हिर.
दानप्रवृत्तं त्वां कश्चित्प्रतिबध्नीयादित्यत आह । मा च त्वाम् ण्यस्तूपदृष्टाः । स सविता देव आगात् आगच्छतु 'इणो गा लुङि'
आतनत् । तनोतिः प्रतिबन्धार्थः । प्रतिबध्नातु । कुतस्त्वमेव । ( पा० २ । ४ । ४५ ) इतीणो गादेशः । किं कुर्वन् । दाशुषे
मुच्यत इति चेत् । ईशिषे वीर्यस्य यतस्त्वं स्वकीयस्य वीर । हवींषि दत्तवते यजमानाय वार्याणि वरणीयानि रत्ना रत्नानि
कर्मणः ईशिषे ईश्वरो यस्त्वमित्यभिप्रायः । किंच उभयेभ्यः । दधद्ददत् स्थापयन्वा । कीदृशः । हिरण्याक्षः हिरण्यमिव कान्ति-
प्रचिकित्स उभय लोकप्रात्यथं व्याध्यपगमं कुर्वित्यभिप्रायः । युक्ते अक्षिणी यस्य स हिरण्याक्षः अमृतदृष्टिर्वा । स कः । यः
गविष्टौ गोशब्देनात्र धुलोकोऽभिप्रेतः । स्वर्गेषणायां च विषय सविता पृथिव्याः संबन्धिनीः अष्टौ ककुभो दिशः व्यख्यत् ।
भूतायाम् अस्मान् प्रचिकित्स । दैवं मनः प्राप्य लब्धधना प्रकाशितवान् । यश्च सी त्रीणि धन्व धन्वानि लोकान् व्यख्यत् ।
अरोगाश्च यथा स्वर्ग यास्यामस्तस्था कुर्विति वाक्यार्थः ॥२३॥ धन्वेत्यन्तरिक्षनाम । तेन तदुपलक्षितानितरावपि लोको लक्ष्येते