This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
५६३
 
उ० त्वं नः । विषमोऽयं मन्त्रः साध्याहारः । त्वं नः अ-
 
उ० पञ्च नद्यः सरस्वतीम् । नदीदेवतायाः पञ्च नद्यः
दृषद्वतीशतद्र्श्चन्द्रभागाविपाशेरावतीत्यादिकाः । सरस्व-स्माकम् हे अग्ने, आश्रय इति शेषः । अथैवं सति तत्र हे
 
तीम् अपियन्ति अपिगच्छन्ति । सस्रोतसः समा-
नानि स्रोतांसि यासां तास्तथोक्ताः । सरस्वती तु ।
तुशब्दोऽवधारणार्थः । सरस्वत्येव पञ्चधा । सो सा च स्वदे
शेभवत् भवति । सरित् नदी । तस्यां हि सारस्वतानि सत्राणि
भवन्ति ॥ ११ ॥
 
1
 
देव, पायुभिः पालनैः धैर्यावलम्बिभिः पालिताः सन्तः
आस्महे । किंच मघोनो रक्ष धनानि रक्ष । तन्वः शरीराणि
च रक्ष । हे वन्द्य वन्दितव्य । कस्मात्पुनस्त्वमेवमुच्यसे ।
यतः स्वभावत एव त्राता तोकस्य पुत्रस्य । तनये तनयस्य
पौत्रस्य च गवां च असि । कथम् । अनिमेपं रक्षमाणः
प्रमादमकुर्वन् रक्षमाणः । एवं चेत् मृदुहृदयतमोसि । तव
 
म० सरखतीनदीदेवत्या । याः दृषद्वत्यायाः पञ्च नद्यः
सरखतीमपियन्ति गच्छन्ति । किंभूताः सस्रोतसः समानं स्रोतः । व्रते तव कर्मणि वयं स्याम । अन्या देवताः परित्यज्य त्वा-
प्रवाह यासां ताः । तुरवधारणे । सा उ सैव सरखत्येवमेव परिचराम इत्यभिप्राय: ॥ १३॥
 
पञ्चधा देशे सरिन्नदी अभवत् पञ्चापि खनामानि त्यक्त्वा सर-
स्वत्येवाभवत् ॥ ११ ॥
 
द्वादशी ।
 
त्वम॑ग्ने॒ प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः
शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्य॒नाय॒सोऽर्जा-
यन्त म॒रुतो भ्राज॑दृष्टयः ॥ १२ ॥
 
० त्वमग्ने चतस्र आग्नेय्यः । द्वे जगत्यौ अन्ये त्रिष्टुब-
नुष्टुभैौ । हे अग्ने, स्वं प्रथम आद्यः अङ्गिरा ऋषिः अभवः ।
त्वं च प्रथमः देवः देवानामभवः । शिवः कल्याणः सखा
समानख्यानः । किंच तव व्रते कर्मणि वर्तमानाः कवयः
क्रान्तदर्शनाः विद्मना अपसः । अप इति कर्मनाम । विदित-
कर्माणः । अजायन्त संवृत्ताः मरुतः । भ्राजन्त्यः ऋष्टयः
खड्गा येषां ते भ्राजदृष्टयः । यो हि शत्रून् जयति भ्राजन्ते
तस्यायुधानि ॥ १२ ॥
 
म० रक्षणार्थी मन्त्रः । हे अग्ने, हे देव द्योतमान, हे
वन्द्य स्तुत्य, तव व्रते कर्मणि वर्तमानान्मघोनो धनवतो यज-
मानान्रक्ष पालय । नोऽस्माकं तन्वः शरीराणि च रक्ष । कैः ।
तव पायुभिः त्वदीयैः पालनैः । यतस्त्वमनिमेषं सावधानं
रक्षमाणः पालयन्सन् तोकस्य पुत्रस्य तनये । विभक्तिव्यत्ययः ।
तनयस्य पौत्रस्य गवां च त्राता रक्षकोऽसि ॥ १३ ॥
 
चतुर्दशी ।
 
उत्ता॒नाय॒मव॑भरा चिक॒त्वान्स॒द्यः प्रवो॑ता॒ वृष॑णं
जजान । अ॒रु॒षस्तू॑पो॒ रुश॑द॒स्य॒ पाज॒ इर्डायास्पुत्रो
व॒युनैऽजनिष्ट ॥ १४ ॥
 
उ० उत्तानायामव द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यो-
ग्यत्वात् । योऽयम् अरुषस्तूपः ज्वालासंघातमूर्तिः । यस्य
चास्य रुशत्पाजः दीप्तं बलम् । यश्च इडायाः पृथिव्याः
पुत्रः । यश्च वयुने प्रज्ञाने कर्तव्ये अजनिष्ट जातः तमग्निम् ।
उत्तानायां अवभर अवाचीनं हर । चिकित्वान् जानानः
अरण्या वीर्यमिति शेषः । किंतद्वीर्यमिति चेत् सद्यः प्रवीता
वृषणं जजान । सद्य एव प्रवीता कामिता सती वृषणं वर्षि-
 
म० चतस्र आग्नेय्यः द्वे जगत्यो अन्ये त्रिष्टुबनुष्टुभौ । हे
अग्ने, त्वं देवानां प्रथमः सखा अभवः भूतोऽसि । आयो
मित्रभूतो देवानां त्वमेवेत्यर्थः । किंभूतस्त्वम् । अङ्गिराः अङ्गानां
रसः । यद्वा अङ्गिभ्य आत्मभ्यो यजमानेभ्यो राति सुखमित्य- ।तारं सेक्तारं युवानं सर्वकर्मक्षमं जनयतीति ॥ १४ ॥
ङ्गिराः । ऋषिर्द्रष्टा । देवो द्योतमानः । शिवः कल्याणः ।
किंच तव व्रते कर्मणि वर्तमाने मरुतः ईदृशा अजायन्त ।
कीदृशाः । कवयः क्रान्तदर्शिनः । विद्मनापसः अप
इति कर्मनाम । विद्मना विदितानि अपांसि कर्माणि
यैस्ते विदितकर्माणः । भ्राजदृष्टयः भ्राजन्त्यः शोभमानाः
ऋष्टयः आयुधानि येषां ते तथा । शत्रुघातकत्वात् ।
विद्मनेति वेत्तेः कर्मणि मनिन्प्रत्ययः बहुलग्रहणात् ततो
विभक्तेराकारः तस्य चालुक् । विद्मनापसः अजायन्त ।
जनेरङ् जादेशश्च श्यन् ॥ १२ ॥
 
त्रयोदशी ।
 
त्वं नो॑ अग्ने॒ तव॑ दे॒व पायुभि॑र्य॒घोनों रक्ष
त॒न्व॒श्च वन्द्य । ऋ॒ता तोकस्य॒ तन॑ये॒ गवा॑म॒स्य-
नि॑मे॒ष॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥ १३ ॥
 
म० यः इडायाः पृथिव्याः पुत्रोऽग्निर्वयुने प्रज्ञाने कर्तव्ये
अजनिष्ट जातः । किंभूतः । अरुषस्तूपः 'रुष बधे' रोषति रुषः
अरुषोऽहिंसकः स्तूपो ज्वालोच्छ्रायो यस्य स तथा । 'टु
उच्छ्राये' । अस्याग्नेः रुशत् दीप्तं पाजः बलमुत्तानायामरण्या-
मवभर अवाचीनं हर । 'द्व्यचोऽतस्तिङः ' ( पा० ६ । ३ । १३५ )
इति दीर्घः । चिकित्वान् अरणिबलं जानन् । किं बलमिति
चेत् । याऽरणि: प्रवीता कामिता सती वृषणं सेक्तारमग्निं सद्यः
तत्कालं जजान जनयति 'छन्दसि लुडडिट:' ( पा० ३ । ४ ।
६ ) इति लिट् । सोऽग्निर्जात इत्यर्थः ॥ १४ ॥
 
पञ्चदशी ।
 
sastercar पदे वयं नाभ पृथिव्या अर्ध ।
जात॑वेद॒ निधी॑म॒ह्यग्ने॑ ह॒व्याय॒ वद॑वे ॥ १५ ॥
 
उ० इडायास्त्वा । इडायाः पृथिव्याः त्वाम् । पदे देव-