This page has not been fully proofread.

उवटभाष्य-महीधरभाष्यसंवलिता ।
 
प्रज्ञाम् । उत अपिच । चेतः सामान्यप्रतिपत्तिचेतः । धृतिश्च
प्रसिद्धा । यन्मनः अन्तर्ज्योतिरमृतं च प्रजासु । यस्मान्न
ऋते येन च विना न किंचन कर्म क्रियते । तन्मे मन
इति व्याख्यातम् ॥ ३॥
 
म० यत् मनः प्रज्ञानं विशेषेण ज्ञानजनकम् प्रकर्षेण
ज्ञायते येन तत् प्रज्ञानम् । 'करणाधिकरणयोश्च' ( पा० ३ ।
३ । ११७) इति करणे ल्युट्प्रत्ययः । उत अपि यत् मनः
चेतः चेतयति सम्यक् ज्ञापयति तच्चतः । 'चिती संज्ञाने' ।
अस्मात् ण्यन्तादसुन्प्रत्ययः । सामान्यविशेषज्ञानजनकमित्यर्थः ।
यच्च मनो धृतिर्धैर्यरूपम् । मनस्येव धैर्योत्पत्तेर्मनसि धैर्यमुप - ।
चर्यते कार्यकारणयोरमेदात् । यच्च मनः प्रजासु जनेषु
अन्तर्वर्तमानं सत् ज्योतिः प्रकाशकं सर्वेन्द्रियाणाम् । उक्तमपि
पुनरुच्यते आदरार्थम् । 'अभ्यासे भूयांसमर्थं मन्यन्ते ' ( निरु०
१ । ४२ ) इति यास्कोक्तेः । यच्चामृतममरणधर्मि आत्मरूप
त्वात् । यस्मान्मनसः ऋते यन्मनोविना किंचन किमपि कर्म
न क्रियते जनैः । सर्वकर्मसु प्राणिनां मनः पूर्वं प्रवृत्तेर्मनः-
स्वास्थ्यंविना कर्माभावादित्यर्थः । 'अन्यारादितरर्ते-' ( पा०
२ । ३ । २९ ) इत्यादिना यस्मादिति ऋतेयोगे पञ्चमी । तन्मे
मन इति व्याख्यातम् ॥ ३ ॥
 
I
 
चतुर्थी ।
 
येने॒दं भूतं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒
सर्व॑म् । येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒व-
संकल्पमस्तु ॥ ४ ॥
 

 
उ० येनेदम् । येन मनसा इदं भूतं भूतकालम्, भुवनं
वर्तमानकालं, भविष्यत् भविष्यत्कालं च । परिगृहीतम्
अमृतेन सर्वम् । येन च मनसा यज्ञस्वायते तन्यते । सप्त-
होता । सप्त होतारो ह्यग्निष्टोमे भवन्ति । तन्मे मन इति
 
व्याख्यातम् ॥ ४ ॥
 
पञ्चमी ।
 
५६१
 
यस्मि॒न्नृच॒ः साम॒ यज॑षि॒ यस्मि॒न्प्रति॑ष्ठता
रथना॒भाव॑व॒राः । यस्मि॑श्चि॒त्त सर्व॒मोत॑ प्र॒जानां॒
तन्मे॒ मन॑ः शि॒वस॑कल्पमस्तु ॥ ५ ॥
 
उ० यस्मिन्नृचः यस्मिन्मनसि ऋचः प्रतिष्ठिताः । यस्मि-
सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । कथ-
मिव । रथनाभौ इव आराः । यस्मिन् चित्तं संज्ञानम् सर्वम्
तस्य तस्यार्थस्य । ओतं निक्षिप्तम् तन्तुसंततमिव कृतं
प्रजानाम् । तन्मे मन इति व्यख्यातम् ॥ ५ ॥
 
म० यस्मिन् मनसि ऋचः प्रतिष्ठिताः । यस्मिन् साम
सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । मनसः
स्वास्थ्ये एव वेदत्रयीस्फूर्तेर्मनसि शब्दमात्रस्य प्रतिष्ठितत्वम्
'अन्नमयं हि सोम्य मनः' इति छान्दोग्ये मनस एव स्वास्थ्ये
वेदोच्चारणशक्तिः प्रतिपादिता । तत्र दृष्टान्तः । रथनाभौ
आराः इव । यथा आराः रथचक्रनाभौ मध्ये प्रतिष्ठि-
तास्तद्वच्छब्दजालं मनसि 1 किंच प्रजानां सर्वं चित्तं
ज्ञानम् सर्वपदार्थविषयि ज्ञानं यस्मिन् मनसि ओतं प्रोतं
निक्षिप्तं तन्तुसन्ततिः पटे इव सर्व ज्ञानं मनसि निहितम् ।
मनःस्वास्थ्ये एव ज्ञानोत्पत्तिर्मनोवैयग्र्ये च ज्ञानाभावः ।
तन्मे मम मनः शिवसंकल्पं शान्तव्यापारमस्तु ॥ ५ ॥
षष्ठी ।
 
सु॒षार॒थिरश्वा॑नव॒ यन्म॑नु॒ष्यान्नेनी॒यते॒ ऽभीशु॑भि-
वा॒जिन॑ इव । हृत्प्रति॑ष्ठ॒ यद॑ज॒रं जवि॑ष्ठं तन्मे॒ मन॑ः
शिवसंकल्पस्तु ॥ ६ ॥
 
उ० सुषारथिः । यन्मनः मनुष्यान् । नेनीयते अत्यर्थ
नयति । कथमिव । सुषारथिः कल्याणसारथिः अश्वान् हुव
यन्मनुष्यान् । यच्च मनः सुषारथिरिव । अभीशुभिः प्रग्रहैः
वाजिन इव वेजनवतोऽश्वानिव यमयतीति शेषः । द्वे
उपमे एकत्र नयनमन्यत्र नियमनमर्थः । यच्च हृत्प्रतिष्ठम् ।
म० येन मनसा इदं सर्वं परिगृहीतम् परितः सर्वतो तत्रोपलब्धेः । यच्च अजिरं जरारहितम् । यच्च जविष्ठं
ज्ञातम् । इदं किंभूतम् । भूतकाल संबन्धि वस्तु । भुवनं भव- अतिशयेन गन्तृ । तन्मे मनः शिवसंकल्पमस्तु ॥ ६ ॥
तीति भुवनम् । भवतेः क्युप्रत्ययः वर्तमानकालसंबन्धि । म० यत् मनो मनुष्यान्नरान्नेनीयते अत्यर्थमितस्ततो
भविष्यत् 'लुटः सद्वा' ( पा० ३ । ३ । १४ ) इति शतृप्रत्ययः । नयति । नयतेः क्रियासमभिहारे यङ् । मनःप्रेरिता एव
'तौ सत्' ( पा० ३ । २ । १२७ ) इत्युक्तेः त्रिकालसंबद्ध - प्राणिनः प्रवर्तन्ते । मनुष्यग्रहणं प्राणिमात्रोपलक्षकम् । तत्र
वस्तुषु मनः प्रवर्तत इत्यर्थः । श्रोत्रादीनि तु प्रत्यक्षमेव । दृष्टान्तः । सुसारथिः अश्वानिव शोभनः सारथिर्यन्ता यथा
गृह्णन्ति । कीदृशेन येन । अमृतेन शाश्वतेन । मुक्तिपर्यन्तं कराया अश्वान् नीयते । द्वितीयो दृष्टान्तः । अभीशुभिर्वा -
श्रोत्रादीनि नश्यन्ति मनस्त्वनश्वरमित्यर्थः । येन च मनसा जिन इव यथा सुसारथिरभीशुभिः प्रग्रहैः वाजिनोऽश्वान्नेनी-
यज्ञोऽग्निष्टोमादिः तायते विस्तार्यते । ' तनोतेर्यकि' ( पा० ६ । यत इत्यनुषङ्गः । रश्मिभिर्नियच्छतीत्यर्थः । उपमाद्वयम् । प्रथ-
४ । ४४ ) इत्याकारः । कीदृशो यज्ञः । सप्तहोता सप्त होतारो मायां नयनं द्वितीयायां नियमनम् । तथा मनः प्रवर्तयति
देवानामाह्वातारो होतृमैत्रावरुणादयो यत्र स सप्तहोता । अभि नियच्छति च नरानित्यर्थः । यच्च मनः हृत्प्रतिष्ठं हृदि प्रतिष्ठा
ष्टोमे सप्त होतारो भवन्ति । तन्मे मन इति व्याख्यातम् ॥ ४ ॥ । स्थितिर्यस्य तत् हृद्येव मन उपलभ्यते । यच्च मनः अजिरं
 
७१ य० उ०