2026-02-20 06:09:59 by ambuda-bot
This page has not been fully proofread.
५६०
महिमानमद्यास्मिन्कालेऽपि आयवः मनुष्याः
शुक्लयजुर्वेदसंहिता ।
[ चतुस्त्रिंशोऽध्यायः ३४ ]
अनुष्टुवन्ति श्रोत्रादीन्द्रियाणामेकमेव ज्योतिः प्रकाशकं प्रवर्तकमित्यर्थः ।
प्रवर्तितान्येव श्रोत्रादीन्द्रियाणि स्वविषये प्रवर्तन्ते । आत्मा
मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति न्यायोर्मन :-
संबन्धमन्तरा तेषामप्रवृत्तेः । तादृशं मे मनः शान्तसंकल्प-
आनुपूर्व्येण स्तुवन्ति । तत्र दृष्टान्तः । पूर्वथा पूर्वमिव यथा
पूर्वमृषयोऽस्तुवन्नेवमिदानीमपि नराः स्तुवन्तीत्यर्थः । 'प्रत्नपूर्व -
विश्वेमात्थाल्च्छन्दसि' ( पा० ५ । ३ । १११ ) इति पूर्वशब्दा-
दिवार्थे थाल्प्रत्ययः । इमा उ त्वा यस्यायम् अयं सहस्रम् । मस्तु ॥ १ ॥
( ३३ । ८१ - ८३ ) ऊर्ध्व ऊ षुणः ( ११ । ४२ ) एताः
प्रतीकोक्ताः ॥ ९७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
त्रयस्त्रिंशत्तमोऽध्यायो गतोऽयं सार्वमेधिकः ॥ ३३ ॥
चतुस्त्रिंशोऽध्यायः ।
तत्र प्रथमा ।
यज्जाय॑तो दूरमु॒दैति॒ दे॑व॒ तद॑ सु॒प्तस्य॒ तथैवैति॑ ।
दूरंगमं ज्योति॑षा॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसैक-
ल्पमस्तु ॥ १ ॥
उ० यज्जाग्रतः षट्कण्डिकास्त्रिष्टुभो मनोदेवत्याः । अस्मि-
अध्याये लैङ्गिको विनियोगः । लिङ्गंच सामर्थ्यमुच्यते अभि- ।
धानशक्तिः । यन्मनः जाग्रतः पुरुषस्य दूरं उदैति उद्गच्छति
चक्षुःप्रभृतीन्यपेक्ष्य । यच्च दैवम् देवो विज्ञानात्मा सोनेन
गृह्यत इति दैवम् । उक्तंच 'मनसैवानुद्रष्टव्यमेतदप्रमयं
ध्रुवमिति । तदु सुप्तस्य । तदःस्थाने यदोवृत्तिः । उकारः
समुच्चयार्थीयः । यच्च मनः सुप्तस्य तथैव तेनैव प्रकारेण एति ।
यच्च दूरंगमं दूरं गच्छतीति दूरंगमम् अतीतानागतवर्त-
मानव्यवहितविप्रकृष्टग्रहीतृ । ज्योतिषां श्रोत्रादीनां विज्ञा-
ननेतॄणां मध्य एकमेव ज्योतिः । तत् मे मनः शिवसंक-
रूपम् । संकल्पः काममूलपदार्थस्य ख्यादेः सुरूपताज्ञानवतः
कामप्रभृति शान्त संकल्पम् अस्तु भवतु ॥ १ ॥
म० अनारभ्याधीतोऽध्यायः आ पितृमेधात् आदित्यया-
ज्ञवल्क्यदृष्टा मन्त्राः पाठे विनियुक्ताः । षड्चत्रिष्टुभो मनो-
देवत्याः शिवसंकल्पदृष्टाः । ऋषिर्वदति । तन्मे मनः शिव-
संकल्पमस्तु शिवः कल्याणकारी धर्मविषयः संकल्पो यस्य तत्
तादृशं भवतु । मन्मनसि सदा धर्म एव भवतु न कदाचि
त्पापमित्यर्थः । तत्किम् । यत् मनो जाग्रतः पुरुषस्य दूरमुदैति
उद्गच्छति । चक्षुराद्यपेक्षया मनो दूरगामीत्यर्थः । यच्च देवं
दीव्यति प्रकाशते देवो विज्ञानात्मा तत्र भवं देवमात्मग्राहक-
मित्यर्थः । 'मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्' इति श्रुतेः । तत्
उ । यदः स्थाने तच्छब्दः उकारश्चार्थः । यच्च मनः सुप्तस्य
पुंसः तथैव यथागतं तथैव पुनरागच्छति खापकाले
सुषुप्तावस्थायां पुनरागच्छति । यच्च दूरंगमं दूरात् गच्छतीति
दूरंगमम् खश्प्रत्ययः । अतीतानागतवर्तमानविप्रकृष्टव्यवहितप-
दार्थानां ग्राहकमित्यर्थः । यच्च मनो ज्योतिषां प्रकाशकानां
द्वितीया ।
येन॒ कर्म॑ण्य॒पस मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्त वि॒द-
र्थेषु धीरा॑ः । यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒
मर्नः शिवसंकल्पमस्तु ॥ २॥
उ० येन कर्माणि । येन मनसा सता कर्माणि । अपसः
अप इति कर्मनाम तद्धितलोपः । अपस्विनः कर्मवतः ।
मनीषिणः मेधाविनः । यज्ञे कृण्वन्ति कुर्वन्ति । विदथेषु
वेदनेषु यज्ञविधिविधानेषु धीराः धीमन्तः । यच्च अपूर्वम्
न विद्यते पूर्वमिन्द्रियं यस्मात्तदपूर्वम् । यद्वा अपूर्वमनपरम् ।
यच्च यक्षं पूज्यम् । यच्च अन्तर्मध्ये प्रजानामास्ते । तन्मे
मन इति व्याख्यातम् ॥ २ ॥
म० मनीषिणः मेधाविनः यज्ञे येन मनसा सता कर्माणि
कृण्वन्ति कुर्वन्ति 'कृ करणे' स्वादिः । मनःस्वास्थ्यंविना
कर्माप्रवृत्तेः । केषु सत्सु । विदथेषु ज्ञानेषु सत्सु विद्यन्ते ज्ञायन्ते
तानि विदथानि तेषु । वेत्तेरौणादिकोऽथप्रत्ययः प्रत्ययोदात्तत्वेन
मध्योदात्तं पदम् ' प्रत्ययः परश्च आद्युदात्तश्च' ( पा० ३ । १ ।
१ - ३ ) इति पाणिन्युक्तेः यज्ञसंबन्धिनां हविरादिपदार्थानां
ज्ञानेषु सत्वित्यर्थः । कीदृशा मनीषिणः । अपसः अप इति
कर्मनाम ( निघ० २ । १ । १ ) अपो विद्यते येषां ते अप-
खिनः कर्मवन्तः 'अस्मायामेधाखजो विनिः' ( पा० ५ । २ ।
१२१ ) इति विन्प्रत्ययः 'विन्मतोर्लुक्' इतीष्ठाभावेऽपि
छान्दसो विनो लुक् ( पा० ५ । ३ । ६५ ) सदा कर्मनिष्ठा
इत्यर्थः । तथा धीराः धीमन्तः धीर्विद्यते येषां ते धीराः
कर्मण्यण् ( पा० ३ । २ । १ ) यच मनः अपूर्वम् न विद्यते
पूर्वमिन्द्रियं यस्मात्तदपूर्वम् इन्द्रियेभ्यः पूर्वं मनसः सृष्टेः । यद्वा
अपूर्वमनपरमबाह्यमित्युक्तेर पूर्वमात्मरूपमित्यर्थः । यच्च यक्षं
यष्टुं शक्तं यज्ञम् । यजतेरैणादिकः सन्प्रत्ययः 'ञित्यादिर्नित्यम्'
( पा० ६ । १ । १९७ ) इत्याद्युदात्तं पदम् । यच प्रजायन्ते
इति प्रजास्तासां प्राणिमात्राणामन्तः शरीरामध्ये आस्ते इतरे -
न्द्रियाणि बहिःष्ठानि मनस्त्वन्तरिन्द्रियमित्यर्थः । तत् तादृशं मे
मनः शिवसंकल्पमस्त्विति व्याख्यातम् ॥ २ ॥
तृतीया ।
यत्प्र॒ज्ञान॑मु॒त चेति॒ धृति॑श्च॒ ज्योति॑र॒न्तर॒मृते॑
प्र॒जासुं । यस्मा॒न्न ऋ॒ते किंच॒ न कर्म॑ क्रि॒यते॒ तन्मे॒
मर्नः शिवसंकल्पमस्तु ॥ ३ ॥
उ० यत्प्रज्ञानम् । यन्मनः प्रज्ञानं विशेषप्रतिपत्ति-