2026-02-20 06:09:58 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधरभाष्यसंवलिता ।
पदम् । किमर्थम् । अभिष्टये अभिमतलाभाय । पृषोदरादि-
लोपः । हव्यदातये हविषो दानाय च । स नरः इत्था अनेन
हेतुना सेवनरूपेण शशभे शाम्यति । यमनियमशमदमादियुक्तो
भवतीत्यर्थः । कीदृक् सः । देवतातये देवस्य कर्म देवतातिः
तस्मै यज्ञाय । ऋधक् ऋनोतीति ऋधक् समृद्धिमान् यज्ञसंप-
त्तिक्षमधनाढ्यः सन् शान्तो भवतीत्यर्थः । बट् श्रत् सत्रा अद्धा
इत्थेति निपातः । सत्यवचनो वा । सत्यं शाम्यति । एवाभ्यास-
लोपाभाव आर्षः शशमेत्यत्र ॥ ८७ ॥
अष्टाशीतितमी ।
:
आया॑त॒मुप॑भूषतं॒ मध्वः॑ः पिबतमश्विना । दुग्धं
पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मधि॑ष्ट॒माग॑तम् ॥८८॥
उ० आयातं आगच्छतम् । उपभूषतम् अलंकुरुतं च
यज्ञम् । मध्वः मधुरूपस्य स्वमंशं पिबतं च । हे अश्विनौ ।
किंच । दुग्धं पयः महावीरसेचनार्थम् । हे वृषणौ सेक्तारौ
हे जेन्यावसु जेन्यं जितं स्वीकृतं वसु धनं याभ्यां तौ जेन्या-
वसू । किंच मा नो मर्धिष्टं माच मर्धिष्टं संप्रहारं कुरुतम् नः
अस्मान्प्रति । आगतम् अवश्यं च आगच्छतम् ॥ ८८ ॥
।
५५७
नयन्तु प्रापयन्तु । यज्ञं कारयन्त्वित्यर्थः । कीदृशं यज्ञम् । वीरं
विशेषेणेरयति वीरस्तं शत्रूणां विशेषोन्मूलयितारम् । 'वीरो
वीरयत्यमित्रान्' ( निरु० १ । ७ ) इति यास्कः । न नृभ्यो
मनुष्येभ्यो हितम् 'उगवादिभ्यः' ( पा० ५ । १ । २ ) इति
यत् । पङ्किराधसम् इन्द्रस्य पुरोडाशः हर्योर्धानाः पूष्णः करम्भः
सरखत्यै दधि मित्रावरुणयोः पयस्या एषा हविःपङ्क्तिः,
द्विनाराशंसं प्रातः सवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्ना-
राशंसं तृतीयं सवनम् एषा नाराशंसपङ्किः, त्रीणि सवनानि
पशुरुपवसथ्यः पशुरनुबन्ध्यः एषा सवनपङ्क्तिः, एताभिः पतिभिः
राधः समृद्धिर्यस्य पलयो राध्यन्ते साध्यन्ते यत्रेति वा पति-
सर्वार्थः ॥ ८९ ॥
राधाः तम् । ब्रह्मणस्पत्यादयः ईदृशं यज्ञमस्माभिः कारयन्त्विति
नवतितमी ।
च॒न्द्रमा॑ अ॒प्स्व॒न्तरा सु॑प॒र्णो धा॑वते दि॒वि । र॒यिं
पि॒शङ्गे बहुलं पु॑रु॒स्पृह॒ हरि॑रेति॒ कनि॑क्रदत् ॥९०॥
उ० चन्द्रमा अप्सु । आहुतिपरिणामोऽत्रोच्यते । योसौ
चन्द्रमाः स तथा सोमरूपापन्नः । अभिषुतः अप्स्वन्तः
मध्ये रसरूपेण आस्थितः । अग्नौ हुतः सन् सुपर्णः सुपतनः
धावते दिवि । तस्मात् पर्जन्यरूपमास्थाय उदकदानद्वारेण
बहवो यत्र स्पृहयन्ति । हरिः सोम एति । कनिक्रदत् पर्ज-
न्यरूपेणात्यर्थं स्तनितं कुर्वन् ॥ ९० ॥
म० वसिष्ठदृष्टाश्विदेवत्या । हे अश्विना अश्विनौ, युवामा -
यातं यज्ञं प्रत्यागच्छतम् । आगत्य च उपभूषतमलंकुरुतं ।
यज्ञम् । मध्वः मधुरं सोमं पिबतम् । कर्मणि षष्ठी नुमभाव-
रछान्दसः । किंच हे वृषणा वृषणौ वर्षकौ यज्ञफलस्य । रथिं धनम् पिशङ्गं पीतवर्गम् । बहुलमसंख्यातम् । पुरुस्पृहं
सेक्तारौ, हे जेन्यावसू, जेन्यं जेतव्यं जितं वा आ समन्तात्
वसु धनं याभ्यां तौ जेन्यावसू वशीकृतधनौ तादृशौ । युवां
पयः वृष्टयुदकं दुग्धमन्तरिक्षात्प्रक्षारयतम् । दुहेर्लोण्मध्यमद्वि-
वचनं दुग्धमिति । किंच नोऽस्मान्मा मर्धिष्टं मा हिंस्तम् ।
मृधिर्हिंसार्थः लुङ् । किं बहुना युवामागच्छतम् । आदरार्थं
पुनर्वचनम् ॥ ८८ ॥
एकोननवतितमी ।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒ प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छ वी॒रं
नये॑ प॒तिरोधसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥ ८९ ॥
उ० प्रैतु अस्मदीयं यज्ञं प्रति आगच्छतु । ब्रह्मणस्पतिः
बृहस्पतिः । प्रैतु च देवी वाक् । सूनृता शोभना सत्य-
वती त्रयीलक्षणा । कं प्रत्यागच्छत्वित्यत आह । अच्छ अभि ।
वीरं पुत्रं महावीरं वा । नर्यम् नृभ्यो हितम् अनुग्राहकम् ।
पङ्क्तिराधसं ब्रह्मपङ्क्तिसाधकम् । पङ्क्तिपावनमित्यर्थः । किंच
देवाः यज्ञं नयन्तु नः अस्माकम् ॥ ८९ ॥
म० कण्वदृष्टा वैश्वदेवी । ब्रह्मणो वेदस्य पतिः हिरण्यगर्भः
नोऽस्माकं यज्ञमच्छ यज्ञाभिमुखं प्रैतु प्रकर्षेणागच्छतु । ब्रह्म-
णस्पतिः। 'ब्रह्मणः पाता पालयिता वा' (निरु० १० । १२ ) इति
यास्कः । तथा देवी देवतात्मा सूनृता प्रियसत्यस्वरूपा तस्यैव
वाक् श्रयीरूपा यज्ञं प्रैतु । किंच देवा यष्टव्या नोऽस्मान् यज्ञं
म० त्रितदृष्टाहुतिपरिणामवादिन्यैन्द्री । 'आहुतेर्होमद्रव्यस्य
परिणामो द्युपर्जन्यपृथिवी पुरुषयोषात्मकपञ्चाग्निक्रमेण परिपाकः '
'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति श्रुत्योक्तः
तं वदत्येषा ऋक् । अधियज्ञं तावदर्थः । चन्द्रं देवानामाहादं
मिमीते करोति चन्द्रमाः लतारूपः सोमोऽभिषुतः सन् अप्सु
वसतीवरीनिप्राभ्यादिजलेषु अन्तर्मध्ये रसरूपेण स्थितानौ
हुतः सन् सुपर्णः गरुडाकृतिः साधुपतनो भूत्वा दिवि आधा-
वते शीघ्रं गच्छति । 'सृ गतौ' इत्यस्य शीघ्रगतौ धावादेशः
'तृतीयस्यामितो दिवि सोम आसीत्' इति श्रुतेः । 'हरिः सोमो
हरितवर्णः ' ( निरु० ४ । १९ ) इति यास्कोक्तेर्हरिः पूर्वोक्तः
सोम एव दिवि गतः पर्जन्यरूपमास्थायोदकदानद्वारेण रयि-
मेति 'रयिरिति धननाम' ( निरु० ४ । १७ 1) इति यास्कः ।
धान्यभावं प्राप्नोति व्रीहियवाद्यन्नरूपो भवतीत्यर्थः । कीदृशं
रयिम् । पिशङ्गम् परिपाकेन त्रीहियवादिकं धान्यं पीतवर्ण
भवति । बहुलमसंख्यातम् । चतुर्विधभूतग्रामजीवनपर्याप्त-
मित्यर्थः । पुरुस्पृहं पुरूणां बहूनामपि स्पृहा लिप्सा यत्र
तम् । बहवोऽपि यद्धान्यमिच्छन्ति तद्रूपो भवतीत्यर्थः ।
कीदृशो हरिः । कनिक्रदत् पर्जन्यरूपात्यर्थ स्वनितं कुर्वन् ।
'दाधर्ति - ' ( पा० ७ । ४ । ६३ ) इत्यादि निपातः ॥ ९० ॥