2026-02-20 06:09:56 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य-महीघरभाष्यसंवलिता ।
५५३
कर्तारो भोक्कारश्च जीवाः आसन् । अन्ये महिमानः महान्तो
विपुला वियदादयो भोग्या आसन् । महिमान इति स्वार्थे
इमनिच् । एवं मायायामीश्वरः सर्वं जगत्सृष्ट्वा स्वयं चानुप्रविश्य
भोक्तृभोग्यरूपेण विभागं कृतवानित्यर्थः । तयोर्भोक्तृभोग्य-
योर्मध्ये स्वधान्नं भोग्यप्रपञ्चोऽवस्तादवरो निकृष्ट आसीत् । प्रयतिः
प्रयतिता भोक्ता परस्तात् परः
उत्कृष्टः भोक्तृप्रपञ्चाधीनं
भोग्यप्रपञ्चं कृतवानित्यर्थः । 'विभाषा परावराभ्याम् ' ( पा०
५ । ३ । २९ ) इति प्रथमार्थेऽस्तातिप्रत्ययः । 'अस्ताति च'
( पा० ५ । ३ । ४० २) इत्यवरशब्दस्यावादेशः । ' एतद्वा इदं -
सर्वमन्नं चैवान्नादश्च' इति श्रुतेः ॥ ७४ ॥
पञ्चसप्ततितमी ।
वृत्तः स्थितो भाववृत्तः परमात्मा सोऽस्या देवता । आग्रयण-
ग्रहे विनियोगः क्रमपाठाल्लभ्यते ततोऽधियज्ञं तावद्याख्यायते ।
'आधवनीयादुन्नेता निग्राभ्याखा सिञ्चति ताः पवित्रे यजमान -
स्ततो ग्रहग्रहणमा ध्रुवादिति' ( का० ९ । ५ । १७ ) कात्या-
यनेनोक्तं तदभिप्रायेणोच्यते । एषां पूयमानसोमानां रश्मिः
यमनात् ऋजीषादिकल्कनियामको दशापवित्रलक्षणः तिरश्चीनः
तिर्यङ् एव विततो विस्तारितः उद्गातृभिरिति शेषः । तस्मिन्
दशापवित्रे सोमः प्रक्षिप्तः सन् दशापवित्रादधश्च आसीत्
उपरि च आसीत् । खिच्छब्दौ चार्थो । उपरि स्विदासीदिती
कारः लुतः । किंच तत्रैके पदार्थ ग्रहचमसाधवनीयद्रोणकल-
शादयो रेतोधा आसन् रेतो जगदुत्पत्तिबीजं सोमं दधति
धारयन्ति ते रेतोधाः सोमाधारभूताः आसन् । 'यज्ञाद्वै प्रजाः
प्रजायन्ते' इति श्रुतेर्जगद्वीजत्वं सोम॒स्य । तथाऽपरे पदार्थाः
सोमरसरूपास्तत्राधेयाः सन्तो महिमानः महान्तः उत्कृष्टा
आसन् । आधाराधेयभावेन सर्वोऽयं यज्ञात्मैव स्थित इति
भावः । 'ब्रह्मार्पणं ब्रह्म हविः' इति स्मृतेः । किंच खंधान्नं
तद्रूपः अवस्तात् अवरो होमात् प्राक् नीच आसीत् । प्रयतिः
प्रयतते प्रयतिः प्रयत्नवान् होमानन्तरं लब्धफलकः सन्
परस्तात् परः उत्कृष्टः आसीत् । अथाधिदैवतं व्याख्या । एषां
प्रसिद्धानां सूर्यरश्मीनां मध्ये एकः सुषुम्णाख्यो रश्मिः तिरश्चीनः
विततः विस्तृतः सन् किम् द्युलोकादधः स्वित् आसीत् उतो
परिखिदासीत् । विदिति वितर्के । 'विचार्यमाणानाम्' ( पा०
८ । २ । ९७ ) इति प्लुतः । किंच स रश्मिः रेतोधाः रेतसो
विश्वबीजस्योदकस्य धारयिता आसीत् । व्यत्ययेनैकवचनम् ।
तथाच श्रुतिः 'सूर्यस्य ह वा एको रश्मिरृष्टिवनिर्नाम येनेमाः
सर्वाः प्रजा बिभर्ति' इति । अन्ये रश्मयो महिमानः माहात्म्या-
धायका आसन् विश्वप्रकाशत्वेन । किंच स्वधान्नानिष्पादकः
स एव रश्मिः अवस्तात् अवरो भूम्यभिमुखः प्रयतिः प्रयत्ना-
त्सोर्ध्वमुखः सन् परस्तात् परः उत्कृष्टः दर्शनमात्रेण देवानां
तृप्तिदः । तथोक्तं छान्दोग्यश्रुतौ 'असौ वा आदित्यो देवम-
वि'त्युपक्रम्य 'न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा
तृप्यन्ति' ( छ॰ ५ । १ । ६ ) इति । अथाध्यात्मपक्षे
व्याख्या । नासदासीदिति सप्तर्वेऽध्यात्मप्रतिपादके सूक्त (ऋ०
८ । ७ । १७ ) बह्वृच इमामृचं पठन्ति तत्र । नासदासीदिति
निरस्तसमस्तप्रपञ्चां प्रलयावस्थामनूद्य विश्वबीजम वियोक्ता ।
कामस्तदग्रे समवर्ततेति पादेन च काम उक्तः । मनसो रेतः
प्रथमं यदासीदिति पादेन पुण्यापुण्यात्मकं कर्मोक्तम् । एवम-
विद्याकामकर्माणि सृष्टिहेतून्युक्त्वा तेषां स्वकार्यजनने शैघ्रय-
माह तिरचीन इति । एषामविद्याकामकर्मणां रश्मिरिव रश्मिः
कार्यवर्गो वियदादि विततः विस्तृतः सन् तिरश्चीनः तिर्यगव -
स्थितो मध्ये स्थितः अधश्चासीदुपरि चासीत् । सूर्यरश्मिवद्युग-
पत्सर्वं व्यापेत्यर्थः । तदेव विभजते रेतोधा इति । सृष्टे
कार्यवर्गे केचन रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः आ॒ङ्गुषैरा॒विवा॑सतः ॥ ७६ ॥
आ रोद॑सी अपृ॒ण॒दा स्व॑म॒हज्जातं यदे॑न॒मप॑सो
अधा॑रयन् । सो अ॑ध्व॒राय॒ परि॑णीयते क॒विरत्य॒ न
वाज॑सातये॒ चनो॑हितः ॥ ७५ ॥
उ० आरोदसी जगती । वैश्वानर उच्यते । आ अपृणत्
आपूरयति रोदसी द्यावापृथिव्यौ । आ स्वः आपूरयति च स्वः
आदित्यम् महत् महान्तम् । कदा आपृणत् । यत् यदा जातं
जातमात्रम् एनं वैश्वानरम् अपसः अपस्विनः कर्मवन्तः अधार-
यन् कर्मणि स्थापितवन्तः । सो अध्वराय स एवायमग्निः
अध्वरा यज्ञार्थं परिणीयते । कविः क्रान्तदर्शनः । कथमिव
अत्योन अश्वइव । वाजसातये अन्नसंभजनाय । चनोहितः
चनसि अन्ने स्थापितः । अश्वो हि घृतादिभिरभिवारितेनान्नेन
पोष्यते अतस्तेनोपमीयते ॥ ७५ ॥
७० य० उ०
म० तमेव वैश्वानराख्यं भोक्तारं परमात्मानं स्तौति ।
विश्वामित्रदृष्टा जगती वैश्वानरदेवत्या । यत् यदा जातमरणीत
उत्पन्नमात्रमेनं वैश्वानरमपसोऽपखिनः कर्मवन्तो यजमाना
अधारयन् कर्मणि स्थापितवन्तः । तदा स रोदसी द्यावाभूमी
आ सर्वतः अपृणत् पूरयति स्म । स्थावराणां प्रस्तरादौ तदु-
पलब्धेः । न केवलं रोदसी किंतु महत्प्रभूतं स्वः अन्तरिक्ष-
मापृणत्सूर्यात्मना । त्रैलोक्यं जाठरात्मना पूरितमित्यर्थः ।
गार्हपत्यादीनां लोकलं श्रुत्योक्तम् 'अयं वै लोको गार्हपत्यो
यौराहवनीय' इति । उक्तार्थमेव विवृणोति स इति । सोऽभि-
रध्वराय यागाय परिणीयते सर्वतोऽतिप्रणीताम्नीधीयादिधि-
यादिषु प्रकर्षेण प्रापय्यते । नयने दृष्टान्तः । अत्यो न
यथाश्वो वाजसातयेऽन्नलाभाय सर्वतो नीयते । राजाश्ववा -
न्भोगजातं लभते यथा तद्वद्विप्रोऽम्मिं सेवमानो ब्रह्मलोकान्त-
भोगानिति भावः । कीदृशोऽग्निः । कविः सर्वज्ञः चनोहितः चन
इत्यन्ननामेति यास्कः । चनसेऽन्नाय भोग्याय हितः सर्वभोग •
संपादक इत्यर्थः ॥ ७५ ॥
षट्सप्ततितमी ।
उक्थेभि॑र्वृत्रहन्त॑मा॒ या म॑न्दा॒ना चि॒दा गरा ।