2026-02-20 06:09:54 by ambuda-bot
This page has not been fully proofread.
५४८
शुक्लयजुर्वेदसंहिता ।
षेभ्यः जीविता जीवितानि जीवनहेतूनि कर्माणि व्यूर्णुषे । सूर्यो-
दयानन्तरमेव प्राणिनां कर्मसु प्रवृत्तेः । कीदृशानि जीवितानि ।
अनूचीना अनूचीनानि अन्वञ्चन्ति तान्यनूचीनानि रश्मिसमू-
हानुगतानि तमसि तदभावात् । लौकिकवैदिकव्यवहारप्रवर्त-
यिता त्वमेवेत्यर्थः ॥ ५४ ॥
इति वैश्वदेवस्तुच्चतुर्थंमहः समाप्तोऽयं सर्वमेधः ॥
पञ्चपञ्चाशी ।
प्र वा॒युमच्छ॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑थं वि॒श्व-
वा॑र॒ रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युतः पत्य॑मानः क॒विः
क॒विमि॑यक्षसि प्रयज्यो ॥ ५५ ॥
उ० इदानीं त्रयोनुवाका: पुरोरुचामनारभ्याधीता व्या-
ख्येया आदित्यस्य वा याज्ञवल्क्यस्य वा आर्षमा पितृमेधात् ।
प्रवायुम् त्रिष्टुप् । चतुर्थः पूर्वं व्याख्यायते वाक्यवशात् । हे
प्रयज्यो प्रकर्षेण यजनशील अध्वर्यो, योग्यस्त्वं कविः क्रान्त-
दर्शनः वायुम् अच्छ आभिमुख्येन प्रइयक्षसि प्रकर्षेण यष्टुमि-
च्छसि । यजते रेतद्रूपम् । बृहती मनीषा बृहत्या मनीषया ।
किंभूतं वायुम् । बृहद्रयिम् महाधनम् । विश्ववारं सर्वस्य
वरणीयम् । रथप्रां रथपूरणम् । शत्रुधनैरसौ रथं पूरयति ।
द्युतद्यामा द्योतनं यमनं यस्य स तथोक्तः । द्युतद्यामानमिति
विभक्तिव्यत्ययः वायुविशेषणत्वात् । नियुतः पत्यमानः
अत्रापि पत्यमानमिति पदयोर्विकारो वाक्यवशात् । नियु-
द्भिरश्वैरुत्पतन्तम् । कविं क्रान्तदर्शनम् ॥ ५५ ॥
म० अथ पञ्चदशपञ्चदशत्रयोदशर्चास्त्रयोऽनुवाकः पुरो-
रुचोऽनारभ्याधीताः श्रौतकर्मण्यविनियुक्ताः ब्रह्मयज्ञार्हा आदि-
त्ययाज्ञवल्क्यदृष्टाः पितृमेधपर्यन्तम् । ऋजिश्वदृष्टा त्रिष्टुप् वायु-
देवत्या । प्रकर्षेण यजति प्रयज्युः हे प्रयज्यो अध्वर्यो, बृहती
मनीषा महत्या बुद्ध्या कृत्वा अच्छ आभिमुख्येन त्वं वायुं प्र
इयक्षसि प्रकर्षेण यष्टुमिच्छसि । कीदृशः त्वम् । कविः ज्ञानी ।
कीदृशं वायुम् । बृहद्रयिम् बृहन् रयिर्यस्य तं महाधनम् ।
विश्ववारम् विश्वेन त्रियते तम् सर्वस्य वरणीयम् विश्वं वृणोतीति
वा सर्वव्यापकम् । रथप्राम् रथं प्राति पूरयति रथप्राः
तम् । यजमानाय दातुं धनैः रथं पूरयति । द्युतद्यामा व्यत्ययः
तद्यामानम् तत् दीप्यमानं याम यमनं नियमनं यस्य
तम् । नियुतः पत्यमानः । उभयत्र विभक्तिव्यत्ययः । नियु-
द्भिरश्वैः पत्यमानं गच्छन्तम् । कवि क्रान्तदर्शनम् । ईदृशं
वायुं यजेत्यर्थः ॥ ५५ ॥
षट्पञ्चाशी ।
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् ।
इन्द॑वो वामु॒शन्ति॒ हि । उपयामगृहीतोऽसि वा॒यव॑
इन्द्रा॑वा॒युभ्यां॑ त्वा । ए॒ष ते॒ योनि॑ः स॒जोषा॒भ्यां
त्वा ॥ ५६ ॥
।
[ त्रयस्त्रिंशोऽध्यायः ३३]
उ० इन्द्रवायू इमे व्याख्यातम् ॥ ५६ ॥
म० इन्द्रवायू व्याख्याता ( ७ । ८ ) ॥ ५६ ॥
सप्तपञ्चाशी ।
मि॒त्रधि॑ हु॑वे पू॒तद॑शं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑
घृ॒ताची साध॑न्ता ॥ ५७ ॥
उ० मित्रं हुवे । द्वे गायत्र्यौ मित्रमाह्वयामि । पूतदक्षम्
पू॒तस्य शुद्धस्य प्राणिन उद्धरणे दक्षं सोमम् । वरुणं च
रिशादसम् हिंसकादिविनाशाने शक्तिं कुर्वाणम् हुवे ।
कीदृशः । धियं कर्म । घृताचीम् येन कर्मणा घृतमच्यते
तत्कर्म । साधन्ता साधयन्तौ । नहि देवतामन्तरेण
कर्मसिद्धिः ॥ ५७ ॥
म० द्वे मधुच्छन्दोदृष्टे गायत्र्यौ आया लिङ्गोक्तदेवत्या ।
मित्रं वरुणं चाहं हुवे आह्वयामि । कीदृशम् । पूतदक्षं पूतं पवित्रं
सदाचारं दक्षयति धनपुत्रादिभिर्वर्धयति पूतदक्षस्तम् 'दक्ष
कम्यृद्ध्यो:' इत्यस्माण्णिजन्तात्कर्मण्यण् । रिशादसम् रिशन्ति
हिंसन्ति रिशा दुष्टाः तान् समन्ताद्दसति नाशयति रिशादसः
तम् । 'रिश हिंसायाम् ' ' दस उपक्षये' । द्वयोर्विशेषणे । कीतु-
शावुभौ । धियं कर्म साधन्ता साधयन्तौ । कीदृशीं धियम् ।
घृताचीम् घृतमच्यते हूयते यत्र ताम् ॥ ५७ ॥
अष्टपञ्चाशी ।
दस्र युवाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः ।
आर्यात रुद्रवर्तनी । तं प्र॒त्राय॑ वे॒नः ॥ ५८ ॥
उ० दस्ना युवाकवः । द्वयोरश्विनोरेकस्य दस्स्र इति नाम
अपरस्य नासत्य इति । तत्रायं विभक्त्यर्थे आकारो विरूपै-
कशेषे वर्तते । 'गुणो यङ्लुको:' इति च पाणिनिर्दर्शयति ।
हे दस्त्रौ दर्शनीयौ, हे नासत्यौ न भसत्यौ सत्यावेव । 'नना-
पनपात् -' इति प्रकृतिभावः । युवाकवः युवां कामयमानाः
अहमहमिकया मां पिबतं मां पिबतमिति सुता अभिषुताः ।
वृक्तबर्हिषः प्रस्तीर्णबर्हिषः । यतः अतो ब्रवीमि यात
रुद्रपन्थानौ । तं प्रत्नथायं वेन इति प्रतीकोक्तौ ॥ ५८ ॥
आगच्छतम् । हे रुद्रवर्तनी रुद्रस्येव वर्तनिर्ययोस्तौ तथोक्ती
म० आश्विनी द्वयोरश्विनोरेकस्य दस्र इति नामापरस्य
नासत्य इति । हे दस्रौ दर्शनीयौ, हे नासत्या नासत्यौ न
असत्यौ । सत्यवादिनावित्यर्थः । युवामायातमागच्छतम् । यतः
सुता अभिषुताः सोमा इति शेषः । कीदृशाः सोमाः । युवा-
कवः युवां कामयन्ते ते युवाकवः मां पिबतमितीच्छन्तः ।
यद्वा युवन्ति अनौ मिश्रीभवन्ति युवाकवः 'कटिकुषिभ्यां
काकुः' ( उणा० ३ । ७६ ) इति बहुलग्रहणात्काकुप्रत्ययः ।
वृ॒क्तबर्हिषः वृक्तं बर्हिर्यत्र ते । कीदृशौ युवाम् । रुद्रवर्तनी रुद्र-
स्येव वर्तनिः पन्था ययोस्तौ रुद्रवद्गमनशीलौ । तं प्रत्नथा
(७।१२ ) अयं वेनः ( ७।१६ ) एते द्वे प्रती-
कोके ॥ ५८ ॥