2026-02-20 06:09:54 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधरभाष्यसंचलिता ।
शेषः । यश्च शंसते शस्त्राणि स्तुवते स्तौति च स्तोत्राणि ।
धायि दधति हवींषि । पज्रः प्रार्जितधनः सन् । तस्मै च
रुद्राः सजोषाः भवन्तु । किंच इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां
ते तथोक्ताः । अस्मान् अवन्तु पालयन्तु देवाः ॥ ५० ॥
1
म० पञ्च त्रिष्टुभः आद्या प्रगाथदृष्टा माहेन्द्रपुरोरुक् । यो
नरः शंसते शस्त्राणि शंसति स्तुवते स्तौति स्तोत्राणि प्रकर्षेण
जपति पज्रः प्रार्जितधनः सन् धायि दधाति हवींषि । तान्
अस्मांश्च यजमानान् देवा अवन्तु पान्तु । पज्रः पृषोदरादिः ।
कीदृशा देवाः । अस्मे अस्मासु मेहना । शस आकारः । मेहन्ति
सिञ्चन्ति मेहनाः धनादिसेक्तारः । रोदयन्ति शत्रूनिति रुद्राः ।
पर्वतासः पर्वाणि उत्सवा विद्यन्ते येषां ते पर्वताः उत्सववन्तः
'तपर्व मरुयां' (पा० ५ । २ । १२२ ) इति तत्प्रत्ययः । वृत्रहत्ये
वृत्रासुरवधाय । भरहूतौ भरे संग्रामे हूतिराह्वानं तत्र सजोषाः
समानो जोषः प्रीतिर्येषां ते । एकमतय इत्यर्थः । इन्द्रज्येष्ठाः
इन्द्रो ज्येष्ठो येषां ते । ईदृशा देवा नोऽवन्तु ॥ ५० ॥
एकपञ्चाशी ।
अ॒र्वा अ॒द्या भ॑वता यजत्रा आ वो हार्दि
भय॑मानो व्ययेयम् । त्राध्वं॑ नो देवा नि॒जुरो वृक॑स्य॒
त्राध्वं॑ क॒र्तादे॑व॒पदो॒ यजत्राः ॥ ५१ ॥
1
1 ।
५४७
नय॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साग॑मन्तु॒ विश्व॑-
द्रवि॑ण॒ वा अ॒स्मे ॥ ५२ ॥
मस्तु
उ० विश्वे अद्य इति व्याख्यातम् ॥ ५२ ॥
म० विश्वे अद्य लुरादृष्टादित्य पुनर्ग्रहणे । व्याख्याता ( १८ ।
३१ ) ॥ ५२ ॥
त्रिपञ्चाशी ।
विश्वे॑दे॒वाः शृणुतेमछ॒ हवं॑ मे॒ ये अन्तरि॑क्षि॒ य
उप॒ द्यवि॒ष्ठ । ये अ॑ग्नजि॒ह्वा उ॒त वा॒ यज॑त्रा आस-
द्यस्मिन्ब॒र्हिषि॑ मादयध्वम् ॥ ५३ ॥
उ०
विश्वेदेवाः हे विश्वेदेवाः, शृणुत इमं हवं आह्वानं
मे मम । ये अन्तरिक्षे स्थ भवथ । ये च उपद्यवि द्युलोके स्थ
। भवथ ये च अग्निजिह्वा अग्निमुखाः । उत वा अपिच यजत्रा
यष्टव्याः । श्रुत्वा च आह्वानम् आसद्य स्थित्वा अस्मिन्बर्हिषि
मादयध्वं तृप्यध्वम् ॥ ५३ ॥
चतुःपञ्चाशी ।
म० सुहोत्रदृष्टादित्यग्रहस्य दना श्रयणे विनियुक्ता । हे विश्व-
देवाः, ये यूयमन्तरिक्षे स्थ भवथ । ये च द्यवि उप स्वर्गसमीपे
स्थ । ये चाग्निजिह्वाः वह्निमुखाः । उत वा अपिच यजत्राः
यजनीयाः ते सर्वे यूयमिमं मे मत्कृतं हवमाह्वानं शृणुत ।
उ० अर्वाञ्चो अद्य । अर्वागञ्चनाः अद्य भवत हे यजत्राः । श्रुत्वा चास्मिन्बर्हिषि आसद्योपविश्य मादयध्वं तृप्यध्वम् ॥५३॥
हे यजनीयाः । किंच भावो हार्दि भयमानो व्ययेयम्
आव्ययेयम् । व्ययतिर्गत्यर्थः । आगमयेयं अभिमुखमापादयेयं
वः युष्माकं हार्दि हृदयम् भयमानः बिभ्यत् । बिभेतेर्विकर-
शव्यत्ययेन शानचि शष् । यत एवमतो ब्रवीमि त्राध्वं
पालयत नः अस्मान् हे देवाः, निजुरः नितरां यो भक्षितं
जरयति स निजूः बुभुक्षितादित्यः वृकस्य वृकादिति
विभक्तिव्यत्ययः । त्राध्वं च कर्तात् कूपात् । अवपदः अवा-
चीनानि यत्र पदानि स तथोक्तः तस्मात् सोपानैर्यत्रोत्तरितुं
न शक्यत इत्यर्थः । हे यजत्रा यष्टव्याः ॥ ५१ ॥
म० कूर्मदृष्टादित्यस्य प्रथमा पुरोरुक् । यजन्तं त्रायन्ते
यजत्राः यष्टव्या वा हे यजत्राः देवाः, अद्य यूयमर्वाश्चः
अस्मदभिमुखाः भवत । दीर्घौ संहितायाम् । यतो भयमानः
बिभ्यत् अहं वो युष्माकं हार्दि हृदि भवं मनः आव्ययेयं
आगमयेयम् । अभिमुखं संपादयेयमित्यर्थः । ' व्यय गतौ' ।
णिजन्तः । भिनो व्यत्ययेन शपि भयमानः । किंच हे यजत्राः
देवाः, नोऽस्मान् वृकस्य वृकात् त्राध्वम् पालयत । कर्तात्
कूपाच्च त्राध्वम् । कीदृशाद् वृकात् । निजुरः 'जूरी वधे' नितरां
जूर्यते हिनस्ति निजूः । क्विप् तस्मान्निरः हिंसात् । कीदृ-
शात् कर्तात् । अवपदः अवाचीनाः पादन्यासा यत्र सः अव-
पात् तस्मादवपदः सोपानैर्यत्रोत्तरीतुं न शक्यत इत्यर्थः ॥५१॥
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्यो ऽमृतत्वसुवर्स
भागमु॑त्त॒मम् । आदिद॒मान॑छ॒ सवि॑त॒र्व्यूर्णुषेऽनू-
चीना जवि॒ता मानु॑षेभ्यः ॥ ५४ ॥
उ० देवेभ्यो हि । यस्माद्देवेभ्यः प्रथमं यज्ञियेभ्यः
यज्ञार्हेभ्यः अमृतत्वं सुवसि अभ्यनुजानासि भागं चोत्तमं
सुवसि आत् इत् अथानन्तरमेव दामानम् दातारमुत्पत्ति-
स्थितिलयानाम् स्वकीयं रश्मिजालम् हे सवितः व्यूर्णुषे
विवृणोषि विस्तारयसि । रश्मीनामुद्गमे हि विप्रोऽकम्पित-
मनसाग्निहोत्रादीनि कर्माणि कुर्वीत । किंच अनूचीना अम्व-
चितानि तदनुगतानि जीविता जीवितानि जीवनहेतूनि
कर्माणि मानुषेभ्यः ददासि तस्मात् स्वामेव स्तुम इति
वाक्यशेषः ॥ ५४ ॥
समाप्तं सर्वमेधिकं कर्म ।
म० वामदेवदृष्टा जगती सावित्रग्रहस्य पुरोरुक् । हे
सवितः हि निश्चितं प्रथममुदयसमये यज्ञियेभ्यः यज्ञार्हेभ्यो
देवेभ्यः त्वमुत्तमं भागमग्निहोमरूपं सुवसि प्रेरयसि 'धू प्रेरणे'
तुदादिः अभ्यनुजानासीत्यर्थः । कीदृशं भागम् । अमृतलम-
मृतप्रदमित्यर्थः । कार्यकारणयोरमेदेन निर्देशः । आत् इत्
अनन्तरमेव उदयानन्तरम् दामानम् ददाति प्रकाशमिति दामा
विश्वै अ॒द्य म॒रुतो॒ विश्वं॑ ऊ॒ती विश्वे॑ भवन्त्व॒ - रश्मिसमूहः तं । ब्यूर्णुषे विवृणोषि विस्तारयसि । ततो मानु
द्विपञ्चाशी ।
।