This page has not been fully proofread.

51. महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रथ्याम्बु जाह्नवीसङ्गात् त्रिदेशैरपि वन्द्यते ॥
 
52. अकरणात् मन्दकरणं श्रेयः ।
मन्दकरणात् सद्यकरणं श्रेयस्तरम् ॥
 
53. आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
 
54. श्लोकार्धेन प्रवक्षामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
 
55. यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥
 
56. अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥
 
57. गुरवः सन्ति बहवः शिष्य - वित्तापहारकाः ।
दुर्लभः स गुरुलोके शिष्य-चित्तापहारकः ॥
 
58. चिन्तायास्तु चितायास्तु बिन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवं चिन्ता दहति जीवितम् ॥
 
59. अन्नदानं परं दानं विद्यादानमतः परम् ।
 
अन्नेन क्षणिका तृप्तिः यावज्जीवं च विद्यया ॥
 
60. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
 
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥