This page has not been fully proofread.

41. वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥
 
42. यो ध्रुवाणि परित्यज्य अध्रुवं परिसेवते ।
धुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव तत् ॥
 
43. अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥
 
44. शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेत् ।
लक्षं विहाय दातव्यं कोटिं त्यक्त्वा हरिं स्मरेत् ॥
 
45. चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥
 
46. कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ।
सुकृते दुष्कृते चैव चत्वारः समभागिनः ॥
 
47. यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पुराकृतम् कर्म कर्तारमनुगच्छति ॥
 
48. गुणवज्जनसंसर्गात् याति नीचोऽपि गौरवम् ।
पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते ।
 
49. वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥
 
50. शतेषु जायते शूरः सहस्रेषु च पण्डितः ।
वक्ता दशसहस्रेषु दाता भवति वा न वा ॥