This page has been fully proofread once and needs a second look.

31. उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
 

 
32. न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।

अतः श्वः करणीयानि कुर्यात् अद्यैव बुद्धिमान् ॥
 

 
33. विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
 

 
34. हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।

श्रोतस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥
 

 
35. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।

पयः पानं भुजङ्गानां केवलं विषवर्धनम्
 

 
36. पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् ।

मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥
 

 
37. बाणेन युद्धं न तु भाषणेन ज्ञानेन साधुः न तु वल्कलेन ।

रथेन यात्रा न मनोरथेन श्रमेण विद्या न तु पुस्तकेन ॥
 

 
38. आशाया ये दासास्ते दासास्सर्वलोकस्य ।

आशा येषां दासी तेषां दासायते लोकः ॥
 

 
39. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
 

 
40. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥