This page has been fully proofread once and needs a second look.

11. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।

परं परोपकारार्थं यो जीवति स जीवति ॥
 

 
12. गङ्गा पापं शशी तापं दैन्यं च कल्पतरुस्तथा ।

पापं तापं च दैन्यं घ्नन्ति सन्तो महाशयाः ॥
 

 
13. सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।

छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
 

 
14. नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी ।

गुणी च गुणरागी च विरलः सरलो जनः ॥
 

 
15. परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः ।

परोपकाराय फलन्ति वृक्षाः परोपकारार्थम् इदं शरीरम् ॥
 

 
16. पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।

नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
 

 
17. पादपानां भयं वातात् पद्मानां शिशिराद् भयम् ।

पर्वतानां भयं वज्रात् साधुनां दुर्जनाद्भयम् ॥
 

 
18. अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः ।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
 

 
19. दम्भेन लोभेन भिया हिह्रिया वा प्रायो विनीतो जन एष सर्वः ।

वैराग्यस्त्वाहृदयं विनीतं नरं वरं दुर्लभमेव मन्ये ॥
 

 
20. घटं भित्त्वा पटं छित्त्वा (कृत्वा) रासभरोहणम् ।

येनकेनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥