This page has not been fully proofread.

99. रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गः चरणरहितः सारथिरपि ।
रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥
 
100. यदा किञ्चिज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतं
तदा मुर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
 
100100100100100100
 
श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् ।
नमामि भगवद्पादं शङ्करं लोकशङ्करम् ॥
 
शङ्करं शङ्कराचार्यं केशवं भादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ।
 
सदाशिवसमारम्भाम् शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
 
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं सूत्रकारं च प्रणोतोऽस्मि मुनित्रयम् ।
 
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ॥
 
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥
 
आ नो भद्राः क्रतवो यन्तु विश्वतः ॥