This page has not been fully proofread.

शतं सुभाषितानि
 
1. भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥
 
2. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
 
3. सुभाषितेन गीतेन युवतीनां च लीलया ।
मनो न भिद्यते यस्य स योगी ह्यथवा पशुः ॥
 
4. द्राक्षा म्लानामुखी जाता शर्करा चाश्मता गता ।
सुभाषितरसं दृष्ट्वा सुधा भीता दिवंगता ।
 
5. काकः कृष्णः पिकः कृष्णः को भेदः काकपिकयोः ।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः ॥
 
6. शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो न हि सर्वत्र चन्दनं न वने वने ॥
 
7. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
 
8. उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः सः साधुरिति कीर्तितः ॥
 
9. साधुनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
 
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥
 
10. स्वभावं न जहात्येव साधुरापद्गतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥