शतकत्रयम् /99
This page has not been fully proofread.
३८
भर्तृहरिकृतं
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ ९३॥
वचसीति ॥ श्रुत्या शास्त्रेण मुखराणि वाचालानि मुखानि येषां तेषां
शास्त्रनिपुणानां पण्डितानां संगस्य संगतेस्त्यागमुद्दिश्य वचसि वाण्यां केवलं
वार्तैव भवति नतु ते संगत्यागं कृतिविषयतामानयन्तीत्यर्थः ॥ तस्मात् अरुण-
रत्नैः पद्मरागमणिभिर्ग्रन्थिर्ग्रथनं यस्मिन्नेतादृशः काञ्चीकलापो यस्मिन्तत् एवं-
विधं कुवलयनयनानां कमलनयनानां स्त्रीणां जघनं कटिपुरोभागं विहातुं त्यक्तुं
कः समर्थोऽस्तीति शेषः ॥ अपि तु न कोऽपीत्यर्थः ॥ " मालिनी वृत्तम्" ९३
मदनवेगस्य दुष्परिहरत्वं श्वदृष्टान्तेनाह—
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ ९४ ॥
कृश इति ॥ कृशः क्षीणः, काण एकाक्षः, "काणः काकैकचक्षुषोरिति
मेदिनी" खञ्जः खोडः गतिविकल इति यावत् ॥ " खोडे खञ्जस्त्रिषु जरावरा
इत्यमरः" श्रवणाभ्यां कर्णाभ्यां रहितो हीनः, पुच्छेन लाङ्गलेन विकलो हीनः,
व्रणोऽस्यास्तीति व्रणी, पूयेन किन्न आर्द्रः, कृमीणां कुलं तस्य शतानि तैरा -
वृता व्याप्ता तनुः शरीरं यस्य सः, क्षुधा क्षुधया क्षामः क्षीणः, जीर्णः वृ-
द्धोऽपि, पिठरकस्य घटस्य कपाले शकले अर्पितो गलः कण्ठो येन सः,
दृशोऽपि श्वा शुर्नी अनु पश्चादेति गच्छति नायं शुनीस्वभावो न शुनः खभावः
किं तु मदनस्यैवायं प्रभाव इत्याह- हतमपीति ॥ मदनः कामो हतमपि विकलम-
पि पुरुषं निहन्त्येव, मारयत्येव न मोचयतीत्यर्थः ॥ " शिखरिणी वृत्तम् ॥ ९४ ॥
इन्द्रियनिग्रहस्यातिदुर्घटत्वं विश्वामित्रादिदृष्टान्तपूर्वकमाह -
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना-
एता -
स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥
शाल्यन्नं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा-
स्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥९५॥
विश्वामित्रेति ॥ वातो वायुः, अम्बु उदकं, पर्णानि पत्राणि तानि अश्न-
न्ति ते, एवंविधा अन्नादित्यागिनोऽपि विश्वामित्रः पराशरश्च तौ प्रभृती
येषां ते तेऽपि सुकलितं सुन्दरं स्त्रियाः मुखपङ्कजं मुखकमलं दृष्ट्वैव मोहं
Digitized by Google