शतकत्रयम् /98
This page has not been fully proofread.
शृङ्गारशतकम् ।
३७
वारिणि जले तत्तीरे इत्यर्थः ॥ आवासः स्थितिः क्रियतां पुण्यसंपादनार्थ-
मित्यर्थः, वा अथवा हारो मुक्ताहारोऽस्ति यस्मिंस्तस्मिन् मनोहारिणि तरुण्या
युवत्याः स्तनद्वये आवासः स्थितिः क्रियताम् ॥ ऐहिक सुखार्थमित्यर्थः ॥
"अनुष्टुव् वृत्तम् ॥ ९० ॥
स्त्रीणां प्रशान्तस्यापि वपुषः क्षोभकत्वं श्लेषानुविद्धरूपकविधयाऽऽह—
केशाः संयमिनः श्रुतेरपि परंपारं गते लोचने
चान्तर्वक्रमपि स्वभावशुचिभिः कीर्ण द्विजानां गणैः ॥
मुक्तानां सतताधिवासरुचिरं वक्षोजकुम्भद्वयं
चेत्थं तन्वि वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥ ९९ ॥
केशा इति ॥ केशाः कचाः संयमो बन्धनमस्ति येषां ते [पक्षे संयमिनो
योगिरूपाः,] सन्तीति शेषः ॥ तथा लोचने नेत्रे श्रुतेरपि कर्णस्यापि 'श्रुते-
रिति जात्यभिप्रायेणैकवचनम् ' 'कर्णयोरित्यर्थः ' परंपारं गते स्तः आकर्ण-
विशाले इत्यर्थः ॥ [ पक्षे श्रुतेर्वेदस्य पारं गते संपूर्णवेदाध्यायिनि इत्यर्थः, ]
तथा वक्रं मुखमपि खभावेन शुचिभिः शुद्धैर्द्विजानां दन्तानां [पक्षे ब्राह्म-
णानां, ] गणैः समूहैः कीर्ण व्याप्तम् " दन्तविप्राण्डजा द्विजा इत्यमरः " तथा
वक्षोजौ स्तनावेव कुम्भौ घटौ तयोर्द्वयं युग्मं मुक्तानां मुक्ताहाराणां सततं
निरन्तरं अधिवासो वसतिस्तया रुचिरं सुंदरम् ॥ [ पक्षे मुक्तानां जीवन्मुक्ता-
नामधिवासस्तेन रुचिरमित्यर्थः, ] हे तन्वि हे कृशाङ्गि इत्थं पूर्वोक्तप्रकारेण
प्रशान्तमपि ते वपुः शरीरं नोऽस्माकमन्तरन्तः करणे क्षोभं करोति ॥
"" शार्दूलविक्रीडितं वृत्तम् ॥ ९१ ॥
उद्दीपकसामग्रीसमवधाने स्त्रीणां मनसि मानोदयो न भवतीत्याह-
प्रियपुरतो युवतीनां तावत्पद्मातनोतु हृदि मानः ॥
भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥ ९२ ॥
प्रियपुरत इति ॥ यावच्चन्दनतरुणा चन्दनवृक्षेण सुरभिः सुगन्धिर्निर्मल:
स्वच्छः पवनो वायुर्न भवति तावत् प्रियस्य पुरतोऽप्रभागे युवतीनां स्त्रीणां
हृदि अन्तःकरणे मानोऽभिमानः पदं आतनोतु करोति चेत्करोतु ॥ तत्स-
मवधाने तु सुतरां नश्यतीति भावः ॥ " आर्या वृत्तम्" ॥ ९२ ॥
स्त्रीसंगत्यागं कर्तुं विद्वानपि न समर्थ इत्याह-
वचसि भवति संगत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ॥
Digitized by Google