Proofing

This page has not been fully proofread.

३.६
 
भर्तृहरिकृतं
 
पुण्यैर्विना सुंदरवनितालाभो दुर्लभ इति पुण्यकरणविषये चित्तप्रार्थनां
 
करोतीत्याह-
 
यस्याः स्तनौ यदि घनौ जघनं विहारि
वक्रं च चारु तव चित्त किमाकुलत्वम् ॥
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ ८८ ॥
 
यस्या इति ॥ यस्याः स्तनौ कुचौ घनौ सान्द्रो, जघनं कटिपु -
रोभागः विहारि विशेषेण मनोहारि, वक्रं मुखं च चारु सुंदरमस्ति यदि तर्हि
हे चित्त तवाssकुत्वं किमिति, यदि तस्याः तेषु स्तनादिषु तव वाञ्छा इच्छा
अस्ति चेत्तर्हि त्वं पुण्यं कुरुष्व ॥ हि यस्मात् पुण्यैर्विना कस्यापि समीहितार्था
वाञ्छितार्था न भवन्ति न सिध्यन्तीत्यर्थः ॥ " वसन्ततिलका वृत्तम्" ॥८८॥
सुन्दरस्त्रीणां विलासस्य महत्त्वं वर्णयति——
 
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत
प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ॥
चिरं चेतश्चौरा अभिनवविलासैकगुरवो
 
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ ८९ ॥
 
इमे इति ॥ तारुण्यस्य यौवनस्य श्रीः शोभा तस्या नवो नूतनः परिमलोऽति
संमर्द इति यावत् ॥ यद्वा " अतिमर्दो मनोहारिगन्धो येषु ते यौवनश्रियातिशय-
शोभावन्त इत्यर्थः॥ स्यात्परिमलोतिमर्दातिमनोहरगन्धयोश्चापीति मेदिनी" प्रौढं
यत्सुरतं तद्विषयको यः प्रतापः प्रभावस्तस्य प्रारम्भो येषु ते, स्मरस्य कामस्य
विजयस्तस्य यद्दानं तस्य प्रतिभुवो लग्नका : विजयं दातुं समर्था इति यावत् ॥
" स्युर्लनका : प्रतिभुव इत्यमरः " चिरं चिरकालं चेतश्चोरयन्ति ते मनोहा-
रिण इत्यर्थः । अभिनवो नूतनो यो विलासस्तस्यैकगुरवो मुख्यशिक्षकाः एवंवि-
धा इमे प्रसिद्धाः मृगदृशां हरिणाक्षीणां विलासव्यापाराः शृङ्गारचेष्टा-
विशेषाः किमपि अनिर्वचनीयं यथास्यात्तथा विजयन्ते सर्वोत्कर्षेण वर्तन्ते
इति ॥ " शिखरिणी वृत्तम् ॥ ८९॥
 
"
 
ऐहिक पारत्रिकभेदेन पुरुषस्य कर्तव्यमाह -
 
आवासः क्रियतां गाने पापहारिणि वारिणि ॥
 
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ ९० ॥
 
आवास इति ॥ पुरुषेण पापं हरति तच्छीले गङ्गाया इदं गाङ्गं तस्मिन्
 
Digitized by Google