Proofing

This page has not been fully proofread.

शृङ्गारशतकम् ।
 
३५
 
तेन, नीलाब्जवन्नीलकमलवद्दधुतिः कान्तिर्यस्य, 'कृष्णसर्पस्यातिविषत्वमस्ती-
त्यनेन सूचितम् ' ॥ एवंविधेनाऽहिना सर्पेण दष्टः कृतदशोऽहं भविष्यामीति
वरं मनाक् प्रियम् ॥ सर्पदंशजन्यविषबाधा मनाप्रियेत्यर्थः ॥ परंतु तस्या
मुग्धाक्ष्याश्चक्षुषा नेत्रेण दष्टो न वरम् ॥ स्त्रीकर्तृककटाक्षदर्शनजन्यविषबाधा
न प्रियेत्यर्थः ॥ कुतः ॥ तेनाहिना दष्टे सति दिशि दिशि प्रायेण बाहुल्येन
धर्मार्थिनश्चिकित्सका विषवैद्याः सन्ति परंतु मुग्धाक्ष्याः सुंदरस्त्रिया ईक्षणं नयनं
तेन वीक्षितस्यावलोकितस्य वीक्षणरूपविषदग्धस्येत्यर्थः ॥ मे मम मन्त्रो विषाप-
हारको न, वा अथवा औषधमपि नास्तीत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम्"॥
एतदेव भङ्गयन्तरेण वर्णयन्नाह—
 
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ॥
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै-
श्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ८६ ॥
अपसरेति ॥ हे सखे त्वं अस्मात् कटाक्षा एव विषानलो विषाग्निर्यरिंम-
स्तस्मात् [ शिखानलादिति पाठे कटाक्षा एव शिखाज्वालास्तद्विशिष्टोऽन-
लो यस्मिंस्तस्मात् ] प्रकृत्या स्वभावेन विषमः प्रसिद्धसर्पापेक्षया विलक्षण-
स्तस्मात्, विलास एव फणा फटा तां बिभर्तीति भृत् तस्मात् एवंविधाद्योषि-
त्सर्पात्स्त्रीरूपभुजङ्गमाद्दूरादपसर गच्छ पलायनं कुर्वित्यर्थः ॥ कुतः ॥ हि य-
स्मात् इतरफणिना जातितः प्रसिद्धसर्पेण दष्टः पुरुष औषधैश्चिकित्सितुं
शक्यः परंतु मन्त्रिणो मन्त्रवन्तः पुरुषाः चटुला चतुरा या वनिता स्त्री सैव
भोगी सर्पस्तेन ग्रस्तं दष्टं पुरुषं त्यजन्ति चिकित्सितुं शक्ता न भवन्तीत्यर्थः ॥
"हारणी वृत्तम्, रसयुगहयैन्स नौ स्लौ गोहरिणी तदेति लक्षणात्" ॥८६॥
परस्परं संगतमनसां विरहोऽपि संगम एव विघटितमनस्कानां विरहोऽपि
संगम एवेत्याह-
 
विरहोऽपि संगमः खलु परस्परं संगतं मनो येषाम् ॥
 
यद्धृदयविघटितः संगमोऽपि विरहं विशेषयति ॥ ८७ ॥
विरह इति ॥ येषां मनोऽन्तःकरणं परस्परं संगतं संलग्नमस्तीति
शेषः ॥ तेषां विरहोऽपि वियोगोऽपि संगम एव भवतीति शेषः ॥ य-
द्यदा हृदयविघटितः विघटितं हृदयं यस्मिन्सः ॥ " वाहिताग्न्यादित्वात्पर-
निपातः " एवंविधः संगमोऽपि विरहं वियोगं विशेषयति वर्धयति करोती-
त्यर्थः ॥ " आर्या वृत्तम्
" ॥ ८७ ॥
 
Digitized by Google