शतकत्रयम् /95
This page has not been fully proofread.
३४
भर्तृहरिकृतं
दुर्वारस्मरबाणपन्नगविषज्वालावलीढो जनः
शेषः कामविडम्बितो हि विषयान् भोक्तुं च मोक्तुं क्षमः ॥ ८३ ॥
एक इति ॥ प्रियतमायाः पार्वत्या देहार्धे हरति तच्छीलो हारी एवंविध एक
एव हरः शिवो रागिषु राजते, यो विमुक्तस्त्यक्तो ललनासंगः स्त्रीसंगो ये-
नैवंविधो नीरागेष्वपि राजते, यस्माच्छिवात्परोऽन्यः दुर्वारो वारयितुमश-
क्यो यः स्मरबाणः कामबाणः स एव पन्नगः सर्पस्तस्य या विषज्वाला त-
याऽवलीढ आस्वादितः शेषोऽवशिष्टो जनः कामेन विडम्बितः सन् विषयान्भो-
तूं मोक्तुं त्यक्तुं च क्षमः समर्थो न भवतीति शेषः ॥ अयमेक एव शिवपार्वतीप-
रिणयात्प्राक् एनं मोहयितुं प्राप्तोऽपि कामो येन दग्धोऽत एव विमुक्तलल-
नासंगत्वाद्विरागिषु राजतेस्म पश्चात्पार्वतीतपश्चर्यया तुष्टः सन् तद्वियोगभङ्गभि-
या तां देहार्धत्वेन धारयन् रागिष्वपि राजतेस्म नान्ये तथाविधा इति भावः
॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८३ ॥
66
स्त्रीपुरुषयोः स्थिताववस्थाभेदेनानौचित्यं व्युत्क्रमं चाह-
इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः॥
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ८४
इदमिति ॥ इह लोके पुंसां पुरुषाणां जरास्वपि मन्मथस्य कामस्येमे मा -
न्मथा विकारा भवन्ति इति यत्, तथा यदपि च नितम्बिनीनां स्त्रीणां स्त-
नपतनावधि स्तनपतनपर्यन्तं जीवितं, वा अथवा रतं सुरतं च न कृतमिदम-
नुचितमयोग्यमक्रमः क्रमाभावश्चास्तीति शेषः ॥ पुरुषस्य तारुण्यावस्थायां
कामविकारोद्भवस्य सार्थक्येऽपि वृद्धावस्थायां तस्य नैरर्थक्यादनुचितत्वं क्र-
मवैपरीत्यं च, स्त्रीणां च तारुण्यावस्थायां जीवितस्य रतस्य सफलत्वेऽपि वृ-
द्धावस्थायां जीवितस्थिती रताकरणं चानुचितं क्रमवैपरीत्यं चेति भावः ॥
" पुष्पिताग्रा वृत्तम्, अयुजि न युगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिता-
प्रेति तल्लक्षणात् ॥ ८४ ॥
"
सर्पदंशजन्यविषापेक्षया स्त्रीकटाक्षवीक्षणरूपविषस्य दुश्चिकित्सकत्वमाह-
व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तचक्षुषा ॥
दष्ट सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य नहि मे मन्त्रो नवाप्यौषधम् ॥ ८५ ॥
व्यादीर्घेति ॥ अहं व्यादीर्घेणातिविस्तीर्णेन, चलेन चञ्चलेन, वक्रा
कुटिला गतिर्यस्य तेन, तेजस्विना कान्तिमता, भोगः फणाऽस्ति यस्य
Digitized by Google