शतकत्रयम् /94
This page has not been fully proofread.
शृङ्गारशतकम्
३२.
सर्व जगत् तमोभूतं तमोरूपमस्ति ॥ स्त्रीकटाक्षैर्विद्धोऽहं जगति फार्यमकार्य
वा किमपि न पश्यामीत्यर्थः ॥ " अनुष्टुव् वृत्तम् " ॥ ७९ ॥
एतादृशीं मोहिकां स्त्रियमेव वर्णयति-
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ॥
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ ८० ॥
मुखेनेति ॥ सा प्रसिद्धा स्त्री चन्द्रवत्कान्तं मनोहरं तेन मुखेन [ पक्षे.
चन्द्रकान्तेन मणिना, ] तथा महान्तश्च ते नीलास्तैः कृष्णवर्णैः शिरोरुहैः
केशैः [ पक्षे महानीलैर्नीलमणिभिः, ] तथा, पद्मं रक्तकमलं तद्वद्रागो र
क्तिमा ययोस्ताभ्यां पाणिभ्यां हस्ताभ्यां [ पक्षे पद्मरागाभ्यां पद्मरागमणि -
भ्यां, ] रत्नमयीव रत्नप्रचुरेव रेजे शुशुभे ॥ " अनुष्टुब् वृत्तम् " ॥ ८० ॥
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ॥
शनैश्वराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ ८१ ॥
गुरुणेति ॥ सा स्त्री गुरुणा महता स्तनभारेण कुचभारेण [ पक्षे गुरु-
णा बृहस्पतिना, ] भास्वता देदीप्यमानेन मुखमेव चन्द्रस्तेन, [ पक्षे भाखता
सूर्येण वा चन्द्रेण च, ] शनैर्मन्दं चरतस्ताभ्यां पादाभ्यां चरणाभ्यां [ पक्षे शनै-
श्वरेण, ] शनैश्चराभ्यामिति द्विवचनं तु पादयोर्विशेषणाभिप्रायेण ग्रहमयीव
सूर्यादिग्रहप्रचुरेव रेजे शोभितवती ॥ " अनुष्टुब् वृत्तम् " ॥ ८१ ॥
एतामेव स्त्रियं प्रसिद्धधानुष्कापेक्षया वैलक्षण्येन वर्णयति -
मुग्धे धानुष्कता केयमपूर्वा दृश्यते त्वयि ।
यदा विध्यसि चेतांसि गुणैरेव न सायकैः ॥ ८२ ॥
मुग्धे इति ॥ हे मुग्धे सुंदरि केयमपूर्वा प्रसिद्धधानुष्कापेक्षया विलक्षणा
धनुः प्रहरणमस्य धानुष्कं तस्य भावो धानुष्कता धनुष्मत्त्वं त्वयि दृश्यते ॥
66
तदस्य प्रहरणमित्यर्थे ठक् इसु सुक्तान्तात्क इत्यनेन ठस्य कः" शरदः कृ-
तार्थेत्यादिवत्सामान्ये नपुंसकम् ॥ वैलक्षण्यमेवाह यदिति । यद्यस्मात्पुरुषाणां
चेतांसि गुणैर्धनुर्ज्याभिरेव आविध्यसि हंसि, सायकैर्बाणैर्न । प्रसिद्धो हि धनुष्मान्
बहिर्द्दश्यमानं लक्ष्यं बाणैर्विध्यति त्वं त्वदृश्यमपि पुरुषचेतोरूपं लक्ष्यं गुणैरेव वि-
ध्यसि न तु बाणैरित्यदृष्टपूर्वा विलक्षणा तव धनुष्मत्तेति भावः॥"अनुष्टुब् वृत्तम्"॥
रागिविरागिणोर्मध्ये एकः शिव एव राजते नान्ये तेषामुभयथा च्युतत्वादित्याह -
एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेष्वपि यो विमुक्तललनासंगो न यस्मात्परः ॥
५
Digitized by Google
1