Proofing

This page has not been fully proofread.

३२
 
भर्तृहरिकृतं
 
देव अमृतमयी अमृतप्राया भवति, तत्तुल्यसुखदत्वादित्यर्थः॥ चक्षुः पथान्नेत्रमार्गा-
दपेता रहिता तु विषादपि अतिरिच्यते अधिका भवति, तत्तुल्यदुःखदातृत्वा-
दित्यर्थः ॥ "अनुष्टुब् वृत्तम्" ॥ ७६ ॥
 
कामस्य दुर्जयत्वमपस्माररूपकेणाह—
 
न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिशतकैः ॥
भ्रमावेशादङ्गे किमपि विदधद्भङ्गमसमं
 
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ७७ ॥
 
न गम्य इति ॥ अयं स्मर एवापस्मारो रोगविशेषो मन्त्राणां गम्यो न
भवति, मन्त्ररूपैरुपायैरप्यपरिहार्य इत्यर्थः । च पुनर्भैषज्यं औषधं तद्विषयो
न भवति, तेनाप्यपरिहार्य इत्यर्थः ॥ च पुनर्विविधैः शान्तिशतकैः शान्तिकार -
कैरुपायैः प्रध्वंसं नाशं न व्रजति गच्छति, तथा भ्रमावेशादसमं न्यूनाधिक-
भावेन विषममङ्गे शरीरे किमपि अनिर्वचनीयं भङ्गं भेदं शान्त्यादिनाप्यप-
रिहार्य इत्यर्थः ॥ विदधत् कुर्वन्सन् दृशं दृष्टिं भ्रमयति भ्रमणं कारयति
घूर्णयति च, प्रसिद्धापस्मारो हि मन्त्रादिभिः परिभवत्ययं च तैरप्यपरिहार्य -
त्वादतिदुर्जय इति भावः ॥ " शिखरिणी वृत्तम् " ॥ ७७ ॥
 
अयं च मदनः स्त्रीकटाक्षसंचाराधीनसंचारवत्त्वात्तदाज्ञाकर इत्याह-
नूनमाशाकरस्तस्याः सुभ्रुवो मकरध्वजः ॥
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ ७८ ॥
 
,
 
नूनमिति ॥ सुष्ठु भ्रुवौ भ्रुकुटी यस्यास्तस्याः स्त्रियो मकरध्वजः कामो नूनं
निश्चितमाज्ञाकर आज्ञापालकोऽस्ति यतो यस्माद्धेतोस्तस्याः स्त्रियो नेत्रसं-
चारेण नेत्रचालनेन सूचितेषु पुरुषेषु प्रवर्तते प्रवृत्तो भवति ॥ " अनुष्टुब्
वृत्तम्" ॥ ७८ ॥
 
स्त्रीष्वत्यन्तासक्तः पुरुषः कमपि जगद्वयवहारं न जानातीत्याह-
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ॥
 
Astanations
 
विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ ७९ ॥
सतीति ॥ प्रदीपे सति, अग्नौ सति, तारा शुक्रादयः रविः सूर्यः इन्दुश्चन्द्रश्च
तेषु तमोनाशकेषु सत्खपि, "सत्सु नानामणिष्वपीत्यपि पाठः " ॥ मृगशावाक्ष्या
मृगस्य हरिणस्य शावो बालकस्तस्याक्षिणीवाक्षिणी नेत्रे यस्यास्तया स्त्रिया
 
Digitized by Google