Proofing

This page has not been fully proofread.

शृङ्गारशतकम् ।
 
-
 
३१
 
अङ्गीकृतस्य कामाख्यपुरुषार्थस्य परमावधिमाह -
आमीलितनयनानां यत्सुरतरसो नु संविदं कुरुते ॥
मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ ७४ ॥
आमीलितेति ॥ आ ईषन्मीलिते नयने नेत्रे यासां तासां सुरते यो रसः
सनु निश्चितं संविदं ज्ञानं सुखसाक्षात्कारमिति यावत् ॥ संवित्स्त्रियां प्रतिज्ञाया-
माचारज्ञानसंगरे इति मेदिनी " ॥ कुरुते इति यत्, तदेवेदं मिथुनैर्द्वन्द्वैरव-
धारितं निश्चितं अवितथं सत्यं कामस्य, निर्वहणं निष्ठा आरब्धस्य कामाख्य-
पुरुषार्थस्य पर्यवसानमिति यावत् ॥ " निर्वहणं तु निष्ठा स्त्री संहारश्च स-
मापन इति शब्दार्णवः" ॥ " गीतिर्वृत्तम्, आर्या प्रथमदलोक्तं यदि कथमपि
लक्षणं भवेदुभयोः ॥ दल्योः कलयति शोभां तां गीतिं गीतवान्भुजङ्गेश इति
तल्लक्षणात् " ॥ ७४ ॥
 
संभोगे कुलस्त्रीरतस्य रमणीयत्वमाह -
 
प्रायामेति मनागमानितगुणं जाताभिलाषं
ततः सव्रीडं तदनु श्लथीकृततनु प्रत्यस्तधैर्य
प्रेमा स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं
 
पुनः ॥
 
ततो निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७५ ॥
प्राख्यामेति ॥ प्राक् रतिसमये मामा नेतिनेति निषेधवाचकशब्दैर्मनाक्
ईत् न मानिता गुणा यस्मिंस्तत्, मनागित्यनेन सर्वथा गुणावमाननं नेति
सूचितम् ॥ अतएव ततोऽनन्तरं जातोऽभिलाष इच्छा यस्मिंस्तत्, तदनु सत्री-
डं सलज्जं यथा स्यात्तथा लयीकृता शिथिलीकृता तनुः शरीरं यस्मिंस्तत्,
तनुशैथिल्यविशिष्टमित्यर्थः ॥ तथाऽपि तदलाभे पुनः प्रत्यस्तं नष्टं धैर्ये य-
स्मिंस्तत्, प्रेम्णा आर्द्र स्निग्धम्, प्रेमयुक्तमित्यर्थः ॥ स्पृहणीया स्पृहायोग्या
निर्भरा अतिशयिता या रहः क्रीडा एकान्तक्रीडा तया प्रगल्भं प्रौढम् ॥
ततो निःशङ्कं यदङ्गस्य विकर्षणमाकर्षणं तेनाधिकं सुखं यस्मिन्नेवंविधं
कुलस्त्रीरतं कुलीनस्त्रीरतं रम्यं मनोहरमस्ति नान्यस्त्रीरतमित्यर्थः ॥
" शार्दू-
लविक्रीडितं वृत्तम्
 
" ॥७९॥
 
एकस्याः स्त्रिया दर्शनादर्शनभेदेनामृततुल्यत्वं विषतुल्यत्वं चाह -
तावदेवामृतमयी यावल्लोचनगोचरः ॥
 
चक्षुः पथादपेता तु विषादप्यतिरिच्यते ॥ ७६ ॥
 
तावदेवेति ॥ यावत् स्त्री लोचनगोचरश्चक्षुर्विषयीभूता भवतीति शेषः ॥ ताव-
 
Digitized by Google