Proofing

This page has not been fully proofread.

३०
 
भर्तृहरिकृतं
 
मनस्युत्पन्नोऽभिलाष उत्तरोत्तरमधिकाधिकः संस्तृप्तिहेतुर्न भवतीत्याह-
अदर्शने दर्शनमात्रकामा दृष्ट्रा परिष्वङ्गरसैकलोलाः ॥
 
आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ ७१ ॥
अदर्शने इति ॥ पुरुषाः स्त्रियाः प्रथमं अदर्शने दर्शनाभावे दर्शनमात्रे
कामोऽभिलाषो येषां तथाभूताः भवाम इति शेषः ॥ एवमुत्तरत्राऽपि ॥ तां
दृष्ट्रा परिष्वङ्गे आलिङ्गने यो रसः प्रेम तस्मिन्नेकलोला : अत्यन्तं सतृष्णा भवामः,
दैववशाद्दर्शने जाते तदालिङ्गनाभिलाषिणो भवाम इत्यर्थः ॥ पुनरायताक्ष्यां
दीर्घलोचनायां स्त्रियामालिङ्गितायां सत्यां वयं विग्रहयोर्देहयोरभेदं अपार्थक्यमा-
शास्महे इच्छामः ॥ दैववशादालिङ्गनलाभेऽपि तावताऽतुष्यन्तो वियोगभीत्या
देहाभेदमाशासानाः सन्तो न तृप्याम इति भावः ॥ " उपजाति वृत्तम्" ७१
इह संसारेऽनुकूलां स्त्रियमुपभुञ्जाना ये पुरुषास्त एव धन्या नान्ये इत्याह-
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिदुन्मीलितानाम् ॥
सुरतजनितखेदस्विन्नगण्डस्थलानामधर-
 
मधुवधूनां भाग्यवन्तः पिबन्ति ॥ ७२ ॥
 
उरसीति ॥ उरसि हृदये निपतितानां पतितानामर्थाद्विपरीतसुरते इत्य-
र्थः ॥ स्रस्तो विस्रस्तो धम्मिल्लः केशपाशो यासां तासाम् ॥ समासान्तः कप् ॥
मुकुलिते सुखवशान्मीलिते नयने नेत्रे यासां तासाम्, किंचिदीषदुन्मीलिता-
नामीषत्पश्यन्तीनामित्यर्थः ॥ सुरते जनितो यः खेदः श्रमस्तेन स्विन्ने धर्म-
युक्ते गण्डस्थले कपोलौ यासां तासामेवंविधानां वधूनां स्त्रीणामधरमधु अ-
धरासवं ये पिबन्ति ते भाग्यवन्तः सन्ति ॥ " मालिनी वृत्तम् " ॥ ७२ ॥
पथिकः पुरुषो नवीनमेघप्रादुर्भावं दृष्ट्वा गन्तुमशक्तः स्वप्रियां चिन्तय-
न्सन् तत्रैव तिष्ठन्नास्ते तामेव चिन्तां दर्शयति-
 
किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथाऽपि किम् ॥
इत्युदीर्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम् ॥ ७३ ॥
किं गतेनेति ॥ कश्चित्पथिकः नवमेघमालिकां नूतनमेघपतिं दृष्ट्वा यदि
सा प्रियतमा स्त्री मद्विरहेण न जीवति तर्हि गतेन गृहगमनेन किम्, अथवा
प्राणिति जीवति तथाऽपि किं कर्तव्यमिति शेषः ॥ मेघाद्याविर्भावेण गन्तुम-
शक्यत्वादित्यर्थः ॥ इति पूर्वोक्तप्रकारेण उदीर्य स्वमन्दिरं स्वगृहं न प्रयाति
न गच्छति ॥ " रथोद्धता वृत्तम् "" ॥ ७३ ॥
 
Digitized by Google