शतकत्रयम् /90
This page has not been fully proofread.
•
शृङ्गारशतकम् ।
२९
मधरपल्लवम्, एते सर्वे कामिपुरुषस्य व्यथां पीडां कुर्वन्तु नाम; परंतु तद-
पेक्षया पुष्पमेवायुधं यस्य तेन कामेन स्वयं लिखिता । सौभाग्यद्योतकानि
यानि अक्षराणि वर्णास्तेषां पतिरेव पङ्क्तिका ॥ स्वार्थे कः ॥ सेव मध्यस्थाऽपि
रोमावली रोमपङ्क्तिः सा अधिकं यथा स्यात्तथा तापं दुःखं करोति सा केन
हेतुनेत्यहं न जाने ॥ लोके हि मध्यस्थस्तथा तापं न ददातीति प्रसिद्धम्, इयं
च रोमावली मध्यस्था सत्यपि हेतुं विनैवाधिकं तापं ददातीति तस्याः सर्वापे-
क्षयाऽधिकतापदातृत्वमस्तीति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ६७ ॥
स्त्रीणां सर्वथा प्रियः कोऽपि नास्तीत्याह-
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ॥
हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ६८ ॥
जल्पन्तीति ॥ सविभ्रमा हावादिचेष्टायुक्ताः स्त्रियः "विभ्रमो भ्रान्ति-
हावयोरिति मेदिनी" ॥ अन्येन पुरुषेण सार्धं जल्पन्ति, तथा अन्यं पुरुषं
पश्यन्ति, तथा हृदयेऽन्तःकरणेऽन्यं चिन्तयन्ति तस्मात् योषितां स्त्रीणां प्रियः
को नाम, न कोपीत्यर्थः । " अनुष्टुब् वृत्तम् " ॥ ६८ ॥
युवतीलाभ एव तपसः फलमित्याह-
स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ॥
यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ ६८ ॥
खपरेति ॥ अलीकपण्डितो मिथ्यापाण्डित्यविशिष्टो यः पुरुषो युवती-
स्तरुणस्त्रीर्निन्दति असौ स्वस्य परस्य च प्रतारको वञ्चकोऽस्ति ॥ कुतः ॥
यस्माद्धेतोस्तपसः फलं स्वर्गेऽस्ति स्वर्गेऽपि च अप्सरस एव फलं भोग्यं नान्यदि-
त्यर्थः ॥ तपःकरणपूर्वकं खर्गे गतस्याप्यप्सरसामेव भोग्यत्वमतो युवतीनिन्दा-
ऽनुचितेति भावः ॥ "पथ्या वृत्तम् । त्रिष्वंशकेषु पादो दल्यो राधेषु दृश्यते
यस्याः ॥ पथ्येति नाम तस्याश्छंदोविद्भिः समाख्यातमिति तल्लक्षणात् " ॥
शशिकिरणान् निवारयन्त्याः कस्याश्चित्त्रिया वने विचरणमाह-
विश्रम्य विश्रम्य वने द्रुमाणां छायासु तन्वी विचचार काचित् ॥
स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ ७० ॥
विश्रम्येति ॥ काचित्तन्वी विरहिणी स्त्री, द्रुमाणामरण्यवृक्षाणां छायासु
विश्रम्य विश्रम्य विश्रान्तिं कृत्वा, आदरार्थे वीप्सा ॥ करेण हस्तेनोद्धतं तेन
स्तनोत्तरीयेण स्तनोपरिस्थवस्त्रेण शशिनश्चन्द्रस्य मयूखान्किरणान् निवार-
यन्ती सती बने अरण्ये विचचार संचारं कृतवतीत्यर्थः ॥ " उपजाति वृत्तम् " ॥
Digitized by Google