शतकत्रयम् /89
This page has not been fully proofread.
२८
भर्तृहरिकृतं
संबन्धसामान्ये षष्ठी ॥ यद्वा नामेत्यध्याहृत्य कामिनीनां नाम अबला इति
नित्यमाहुर्वदन्ति, ते कविवराः कविश्रेष्ठाः विपरीतो बलवत्त्वविरुद्धो बोधो
ज्ञानं येषां ते तथाविधाः सन्ति हि निश्चितम् ॥ नूनमिति वितर्के ॥ अथवा ते
कविवराः कामिनीनां विषये विपरीतबोधाः सन्ति ॥ ते के ॥ ये ता: अ-
बला इति आहुरित्यन्वयः ॥ कुतो विपरीतबोधा इत्याशङ्कयाह- याभिरिति ॥
याभिः कामिनीभिः विलोलतरा अतिचञ्चलास्तारका अक्षिकनीनिका येषु
एवंविधा ये दृष्टिपाताः कटाक्षास्तैः शक्रादय इन्द्रादयोऽपि विजिताः ताः
स्त्रियोऽबलाः कथं, अपि तु न भवन्तीत्यर्थः ॥ " वसन्ततिलका वृत्तम् "॥६५॥
दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां
कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ॥
शुकयुवतिकपोला पाण्डुताम्बूलवल्ली-
दलमरुणनखायैः पाटितं वा वधूभ्यः ॥ ६६ ॥
66
दिशेति ॥ हे जन त्वं बने अरण्ये या हरिण्यो मृग्यस्ताभ्यः वंशस्य
वेणोः काण्डो दण्डः "काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिष्वित्यमरः " ॥
तस्येव छविः कान्तिर्येषां तेषां कुशानां दर्भाणाम् ॥ " अस्त्री कुशं कुथो
दर्भ इत्यमरः" ॥ उपलस्य पाषाणस्य कोटिरप्रभागस्तेन छिन्नं मूलं यस्यैवं-
विधं कवलं ग्रासम् ॥ ग्रासस्तु कवलः पुमानित्यमरः " दिश देहि ॥ वा
अथवा वधूभ्यः स्त्रीभ्यः अरुणानि कृष्णलोहितानि, " अरुणः कृष्णलोहित
इत्यमरमाला " ईषदुक्तानीति यावत् ॥ यानि नखानि तेषामप्राणि तैः पा-
टितं छिन्नं एवंविधं, शुकयुवत्याः कीरस्त्रियाः " गृधौ की रशुकौ समावि-
त्यमरः " कपोलो गण्डस्तद्वत् आ ईषत् पाण्डुः पीतमिश्रश्वेतवर्णा, " पाण्डु-
स्तु पीतभागार्धः केतकीधूलिसंनिभ इति शब्दार्णवः " या ताम्बूलवल्ली त-
स्याः दलं पण दिशेत्यर्थः ॥ " मालिनी वृत्तम् " ॥ ६६ ॥
"
स्तनभारादयो व्यथां कुर्वन्त्यथापि तदपेक्षयाऽधिकां व्यथां मध्यस्थाऽपि
रोमावली ददातीत्याह-
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥
सौभाग्याक्षरपतिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थाSपि करोति तापमधिकं रोमावली केन सा ॥६७॥
उद्वृत्त इति ॥ उद्वृत्त उन्नत एष स्तनभारः कुचभार:, तथा तरले
चञ्चले नेत्रे, तथा चले भ्रूलते, तथा रागेण रक्तिम्णाऽधिष्ठितमिदमोष्ठपल्लव-
Digitized by
Google