शतकत्रयम् /88
This page has not been fully proofread.
शृङ्गारशतकम् ।
२७
प्रणयेति ॥ मृगीदृशां हरिणाक्षीणां स्त्रीणां स्वैरालापाः स्वेच्छाभाषणानि
किमप्यनिर्वचनीयं हरन्ति सर्वस्वं हरन्तीत्यर्थः ॥ कीदृशाः स्वैरालापाः ॥
प्रणयेन नम्रतया मधुराः प्रियाः । प्रेम्णा उद्गाढा भरिताः, तथा रसाच्छृङ्गारा-
दिरसादलसाः शिथिलाः ॥ तथा भणितेन रतिकूजितेन मधुराः, मुग्धप्रायाः
अस्फुटाः, प्रकाशितः संमदो हर्षो येषु ते तथाविधाः प्रकृत्या स्वभावेन
सुभगाः सुंदराः, विश्रम्भार्हा विश्वासयोग्याः, स्मरस्य कामस्योदयं ददति त-
च्छीलाः एवंविधाः ॥ " हरिणी वृत्तम् ॥ ६२ ॥
,
"
"
"
मालाचन्दनादिधारणपूर्वकः प्रियासङ्गमः स्वर्गसुखद इत्याह-
मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम् ॥
वक्षसि प्रियतमा मनोहरा स्वर्ग एष परिशिष्ट आगतः ॥ ६३॥
मालतीति ॥ यस्य शिरसि जृम्भणे विकसने उन्मुखी मालती जातिपु-
ष्पमाला अस्तीति शेषः । एवमुत्तरत्रापि बोध्यम् ॥ यस्य वपुषि शरीरे कुङ्कु-
मेनाविलं मिश्रं चन्दनमस्ति, यस्य वक्षसि हृदये मनोहरा मनोज्ञा प्रियतमा स्त्री
अस्ति, तस्य पुरुषस्य एष परिशिष्टः पुण्यावशिष्टः स्वर्गे भुवि आगतः प्राप्त
इति बोध्यम् । "रथोद्धता वृत्तम्, रोनराविह रथोद्धता लगाविति तल्लक्षणात् ॥
इह जगति कामिन्येव सर्ववशीकरणसमर्था भवतीत्याह —
-
कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा ॥
नूपुरहंसरणत्पदपद्मा कं न वशं कुरुते भुवि रामा ॥ ६४॥
कुङ्कुमेति ॥ कुङ्कुमस्य काश्मीरस्य पङ्कः कर्दमस्तेनाङ्कितश्चिह्नितो देहो
यस्याः सा, गौरौ पयोधरौ स्तनौ ताभ्यां कम्पितो हारो यस्याः सा, नूपुराणि
मञ्जीराण्येव हंसास्तै रणती शब्दायमाने पदपद्मे चरणकमले यस्याः सा एवंविधा
रामा स्त्री भुवि पृथिव्यां कं पुरुषं वशमाधीनं न कुरुते अपि तु सर्वे वशं कु-
रुते इत्यर्थः ॥ " दोधकं वृत्तम्, दोधकवृत्तमिदं भभभागौ इति लक्षणात् " ६४
स्वकटाक्षपातैरिन्द्रादीनामपि मोहनकर्तृत्वसामर्थ्यवतीनां स्त्रीणां कविभिः
क्रियमाणोऽबलात्वव्यवहारो मुधेति कथयंस्तासां बलवत्त्वमाह-
नूनं हि ते कविवरा विपरीतबोधा
66
ये नित्यमाहुरबला इति कामिनीनाम् ॥
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजिता अबलाः कथं ताः ॥ ६५ ॥
नूनमिति ॥ ये कवयः कामिनीनां कामिनीः ॥ कर्मणः शेषत्वविवक्षायां
Digitized by Google