Proofing

This page has not been fully proofread.

२६
 
भर्तृहरिकृतं
 
स्त्रीरूपां मुद्रां विहाय त्यक्त्वाऽन्यत्र यान्ति, ते पुरुषास्तेन कामेनैव निर्दय -
तरं यथास्यात्तथा निहत्य ताडयित्वा नग्नीकृता वस्त्रहीनाः कृताः । केचि-
मुण्डिताः केशरहिताः कृता इति शेषः ॥ एवमेवोत्तरत्रापि बोध्यम् ॥ के-
चित्पञ्चशिखीकृताः पञ्चशिखाधारिणः कृताः ॥ केचिज्जटिला जटाधारिणः
कृताः, अपरेऽन्ये कापालिका नरकपालधारिणः कृता इति ॥ यथा प्रसिद्धो
राजा स्वीयमुद्रोलङ्घनकर्तारं दण्डयति तथा कामाख्यो राजापि संसार-
सुखसाधनं कामिन्येवेति सिद्धान्तं कृत्वा तदुपरि कृतां स्वीयां स्त्रीरूपां मुद्रामु-
ल्लङ्घ्य येऽन्यथा वर्तन्ते तान् नग्नीकरणादिरूपदण्डेन दण्डयतीति भावः ।
" शार्दूलविक्रीडितं वृत्तम् ॥ ५९ ॥
 
कामजनितस्त्रीमोहो दुरुद्धर इत्यर्थं रूपकविधयाऽऽह—
 
विस्तारितं मकरकेतनधीवरेण स्त्रीसंशितं बडिशमत्र भवाम्बुराशौ ॥
तेनाचिरात्तदधरामिषलोलमर्त्यमत्स्यान्विकृष्य स पचत्यगनुरागवहौ
विस्तारितमिति ॥ अत्रास्मिन् भवाम्बुराशौ भवसमुद्रे मकरकेतनः काम
एव धीवरः कैवर्तस्तेन स्त्रीसंज्ञितं स्त्रीनामकं बडिशं मत्स्यवेधनं विस्तारितं
प्रसारितम् तेन कामप्रसृतबडिशेनाचिराच्छीघ्रं तासां स्त्रीणामधर एवामिषं
मांसं तस्मिन् लोलाः सतृष्णा ये मर्त्यमत्स्या मनुष्यरूपा मत्स्यास्तान् विकृष्या-
कृष्य सकामोऽनुरागवह्नौ प्रेमानौ पचति ॥ " वसंततिलका वृत्तम् " ॥ ६० ॥
प्रेमपूर्वक स्त्रीभिः क्रियमाणं कर्मोल्लङ्घयितुं कोऽपि न समर्थ इत्याह-
उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ॥
 
तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ६१ ॥
 
उन्मत्तेति ॥ अङ्गनाः स्त्रिय उन्मत्तमुच्छृंखलं यत्प्रेम तस्य संरम्भाद्वेगा-
द्यत् कर्म आरभन्ते तत्र प्रत्यूहं विघ्नमाधातुं कर्तुं ब्रह्माऽपि कातरो भयच -
कितो भवति खलु निश्चयेन सोऽपि न समर्थोऽस्तीत्यर्थः ॥ स्त्रीचरित्रोल्लङ्घनं
ब्रह्मणोऽपि दुर्घटमिति स्वकन्यानुवर्तनादिना पुराणादौ प्रसिद्धमिति भावः ॥
अनुष्टुब् वृत्तम् " ॥ ६१ ॥
 
66
 
कामिनीष्वत्यन्तासक्तस्य पुरुषस्य ताः सर्वस्वं हरन्तीत्याह-
प्रणयमधुराः प्रेमोद्गाढा रसादलसास्तथा
भणितमधुरा मुग्धप्रायाः प्रकाशितसंमदाः ॥
प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि
किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ६२ ॥
 
Digitized by
 
Google: