Proofing

This page has not been fully proofread.

शृङ्गारशतकम् ।
 
२५
श्रद्धयेच्छया " श्रद्धा संप्रत्ययः स्पृहेत्यमरः " मनोहरं निजवपुः स्वकीयशरीरं
यच्छन्तीषु ददतीषु, विवेक एव कल्पलतिका कल्पवल्ली तस्याः शस्त्रीषु
शस्त्रवच्छेदिकासु एवंविधासु पण्यस्त्रीषु वेश्यासु कः पुरुषो रज्येतासक्तो भवेन्न
कोऽपीत्यर्थः ॥ अनेन केवलं लक्ष्मीलेशप्राप्तीच्छया जात्यन्धत्वादिदोषविशि-
ष्टायापि पुरुषाय स्वशरीरमर्पयन्ती विवेकच्छेदिका वेश्या विवेकिपुरुषेण न
सेव्येति सूचितम् "शार्दूलविक्रीडितं वृत्तम् " ॥ ५६ ॥
 
एकचित्तपूर्वकः सङ्गम एव कामफलं विभिन्नचित्तकृतः सङ्गमस्तु शवसङ्गव-
निष्फल इत्याह-
 
एतत्कामफलं लोके यहुयोरेकचित्तता ॥
 
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ ५७ ॥
 
एतदिति ॥ लोके यत् द्वयोः स्त्रीपुरुषयोरेकचित्तता एकचित्तत्वमेतदेव
कामस्य फलं भवतीति शेषः ॥ अन्यस्मिन्पुरुषे अन्यस्य योषिति वा यश्चित्तं
तेन कृते कामे सति शवयोर्मृतयोर्द्वयोः सङ्गम इव भवति "अनुष्टुब् वृत्तम् " ५७
यावत्पर्यन्तं पुरुषः कामाधीनो न तावन्महत्त्वादयो गुणाः सन्तीत्याह -
तावन्महत्त्वं पाण्डित्यं विवेकित्वं कुलीनता ॥
 
यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥ ५८ ॥
 
तावदिति ॥ यावत्पुरुषस्याङ्गेषु अवयवेषु पञ्चेषुः काम एव पावकोऽग्निर्न
ज्वलति तावदेव महत्त्वं महतो भावो महत्त्वं पूज्यत्वम्, पाण्डित्यं विवेकित्वं
सदसद्विवेकित्वम्, कुलीनता सत्कुलप्रभवत्वं तिष्ठतीति शेषः ॥ विवेकिना पुरु-
षेण कामवशेन न भाव्यमित्यनेन सूचितम् " अनुष्टुब् वृत्तम्
" 119611
लोकप्रसिद्धराजवत्कामाख्यो राजा स्त्रीरूपस्वीयमुद्रोलनकर्तारं दण्डय-
 
तीत्याह-
 
स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसंपत्करीं
 
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
 
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ५९ ॥
स्त्रीमुद्रामिति ॥ ये मूढा अज्ञानिनः कुधियः कुत्सितबुद्धयः पुरुषाः मिथ्या-
फलानि स्वर्गादीनि अन्वेषयन्ति मृगयन्ति ते एवंविधाः सन्तः परमामुत्कृष्टां
सर्वार्थानां संसारसुखोपयोगिपुरुषार्थानां संपदं करोतीति तां तथाविधां सर्वा-
र्थप्राप्तिकरी मिति यावत् ॥ झषो मत्स्यः केतने ध्वजे यस्य एवंविधस्य कामस्य
 

 
Digitized by
 
Google