शतकत्रयम् /85
This page has not been fully proofread.
२४
भर्तृहरिकृतं
शरीरम्, सुहृदयैः शोभनांतः करणैः पुरुषैः ध्येयं ध्यातुं योग्यं किम्,
नवं नूतनं यौवनं तारुण्यम्, सर्वत्र सर्वकर्मणि तस्या विभ्रमो विलासश्चेष्टा
वा ॥ " शार्दूलविक्रीडितं छंदः " ॥ ५३ ॥
शृङ्गाररससेवनं कुर्वताऽपि पुरुषेण वेश्यासङ्गमो न कार्यो ऽतिनिन्द्यत्वा-
दिति बोधयन् वेश्यावृत्तमाह लोकत्रयेण -
वेभ्याऽसौ मदनज्वाला रूपेन्धनसमेधिता ॥
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ ५४ ॥
वेश्येति ॥ यत्र यस्यां कामिभिः पुरुषैः यौवनानि तारुण्यानि धनानि
द्रव्याणि च हूयन्ते, असौ प्रसिद्धा वेश्या, रूपमेवेन्धनं काष्ठं तेन समेधिता
वर्धिता मदनज्वाला कामाग्निज्वाला अस्ति ॥ अनेन यौवनधननाशकारिणी
वेश्या पुरुषैर्न सेव्येति सूचितम् ॥
"
अनुष्टुब्वृत्तम् ॥ ५४ ॥
किंच ।
66
कचम्बति कुलपुरुषो वेश्याधरपल्लवं मनोशमपि ॥
चारभटचौर चेटकनटविटनिष्ठीवनशरावम् ॥ ५५ ॥
क इति ॥ चारः स्पशः, भटो नीचपुरुषविशेषः, "भटः स्यात्पुंसि वीरे
च विशेषे पामरस्य चेति मेदिनी " ॥ चौरस्तेनः । चेटको दासः, "दासगोप्य-
कचेटका इत्यमरः " ॥ नटो नर्तकः, विटो जारस्तेषां निष्ठीवनस्य श्लेष्मो-
त्सर्गस्य शरावः पात्रविशेषस्तम्, एवंविधं मनोज्ञमपि मञ्जुलमपि वेश्याया अध-
रपल्लवस्तं कः कुलपुरुषः कुलीनः पुरुषश्चुम्बति चुम्बनं करोति ॥ अपि तु
न कोपीत्यर्थः ॥ तस्मात्कुलीनपुरुषेण कुलमालिन्यकरं वेश्यासेवनं न कर्तव्य-
मिति सूचितम् ॥ " आर्या वृत्तम्" ॥ १९ ॥
किंच ।
जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
,
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ५६ ॥
जात्यन्धायेति । जात्यैवान्धस्तस्मै च पुनर्दुर्मुखाय दुर्गन्धेन दुष्टं
मुखं यस्य तस्मै, जरया जीर्णान्यखिलान्यङ्गानि यस्य तस्मै, ग्रामीणाय
ग्राम्याय विलासाचतुरायापीति यावत्, दुष्कुलाय नीचकुलाय, गलत्प्रस्रवद्य -
त्कुष्ठं तेनाभिभूताय व्याप्ताय, एवंविधाय पुरुषाय लक्ष्म्या लवो लेशस्तस्य
Digitized by Google