शतकत्रयम् /84
This page has not been fully proofread.
शृङ्गारशतकम्
,
२३
पौर्णिमासंबन्धी विधुश्चन्द्रस्तस्मिन् तन्वीनेत्रयोरत्यन्ताहादजनके इत्यर्थः ॥
सौभाग्यलक्ष्मीर्नितरां धीयते यस्मिंस्तथाविधे सौभाग्यलक्ष्म्या निवासस्थाने
इत्यर्थः ॥ एवंविधे नवे नूतने यौवने प्राप्ते सति विक्रियां मनोविकारं न
कलयति न प्राप्नोति स धन्यः पुण्यवान् पूज्य इति यावत् भवतीति शेषः ॥
" शार्दूलविक्रीडितं वृत्तम् " ॥ ५१ ॥
प्रायः सद्गतिप्रतिबन्धकत्वं स्त्रीणामेवेत्यभिप्रायेणाह -
,
शास्त्रशोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं संसारेऽस्मि -
भवति विरलो भाजनं सद्गतीनाम् ॥ येनैतस्मिन्निरयनगरद्वार-
मुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुश्चिकेव ५२
शास्त्रज्ञोऽपीति ॥ एतस्मिञ्जगति निरयनगरस्य नरकपुरस्य द्वारमुद्घाट-
यन्ती उद्घाटनं कुर्वन्ती, कर्त्रीत्यर्थः ॥ कुटिला वक्रा वामाक्षीणां सुन्दरनय-
नानां स्त्रीणां भ्रूलता कुञ्चिकेव ( लोके किल्लीति ) प्रसिद्धसाधनभूतेव येन
हेतुना भवति, तस्माद्धेतोः शास्त्रं जानातीति शास्त्रज्ञोऽपि प्रथितो वि-
ख्यातो विनयो यस्यैवंविधोऽपि बाढं दृढमात्मनो बोधो ज्ञानं यस्यैवंवि-
धोऽपि पुरुषः अस्मिन्संसारे सद्गतीनामुत्तमगतीनां भाजनं पात्रं विरल:
कश्चिदेव भवति ॥ निरयद्वारोद्घाटनकर्त्री कुञ्चिकासदृशी मोहिका स्त्रीणां भ्रू-
लता यावज्जगति जागरूका तावत् शास्त्रज्ञत्वादिगुणविशिष्टा अपि पुरुषाः
सद्गतीनां पात्राणि न भवन्तीति भावः ॥ " मन्दाक्रान्ता वृत्तम् - मन्दाक्रान्ता ज-
धिषडगैम्भ नतौ ताद्गुरू चेदिति तल्लक्षणात् " ॥ १२ ॥
द्रष्टव्यश्राव्यादिषु रूपादिविषयेषु किमुत्तममिति प्रश्नोत्तरविधयाऽऽह-
द्रष्टव्येषु किमुत्तमं मृगदृशां प्रेमप्रसन्नं मुखं
प्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः ॥
किं स्वाद्येषु तदौष्ठपल्लवरसः स्पर्शेषु किं तत्तनु-
येयं किं नवयौवनं सुहृदयैः सर्वत्र तद्विभ्रमः ॥ ५३ ॥
द्रष्टव्येष्विति ॥ द्रष्टव्येषु दर्शनीयवस्तुषूत्तमं किमस्तीति शेषः ॥ एव-
मुत्तरत्रापि ॥ मृगदृशां मृगलोचनानां स्त्रीणां प्रेम्णा प्रसन्नं मुखमाननमुत्तमम-
स्ति ॥ उत्तमपदस्य सर्वत्रान्वयः ॥ घ्रातव्येष्वपि प्राणयोग्येष्वपि उत्तमं किम्,
तस्याः स्त्रिया आस्यं मुखं तत्संबन्धी पवनो वायुः, श्राव्येषु श्रवणीयेषु उत्तमं
किम्, तस्याः स्त्रियो वचो वचनम्, स्वाद्येषु स्वादनीयेषु उत्तमं किम्,
तस्या ओष्ठपल्लवोऽधरोष्ठपल्लवस्तत्संबन्धी रसः, स्पर्शेषु किमुत्तमम्, तस्यास्तनुः
Digitized by Google