Proofing

This page has not been fully proofread.

२२
 
एतदेव भङ्गयन्तरेणाह -
 
भर्तृहरिकृतं
 
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ॥
 
मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ ४९ ॥
कामिनीति ॥ हे मनःपान्थ कुचावेव पर्वतौ ताभ्यां दुर्गमे गन्तुमशक्ये
कामिन्याः स्त्रियाः काय एव कान्तारमरण्यं तस्मिन् मा संचर मा गच्छ,
कुतः तत्र तस्मिन्नरण्ये स्मरः काम एव तस्करश्चोरः आस्ते ॥ अनुष्टुव
वृत्तम् " ॥ ४९ ॥
 
सर्वेषामनर्थानां मूलं यौवनमित्याह-
 
रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतु-
महस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ॥
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्नह्यनर्थव्रजकुसुमवनं यौवनादन्यदस्ति ॥ ५०
 
'
 
66
 
रागस्येति ॥ रागस्यानुरागस्यैकमगारं गृहम् नरकाणां शतानि तेषु
महादुःखानि तेषां संप्राप्तिस्तस्या हेतुः कारणं, मोहस्योत्पत्तिस्तस्या बीजम्,
ज्ञानमेव ताराधिपश्चन्द्रस्तस्य जलधरपटलं मेघपटलवदाच्छादकमिति यावत्,
कन्दर्पस्य मदनस्यैकमित्रं मुख्यमित्रम् प्रकटितो विविधा नानाप्रकाराः स्प-
ष्टा ये दोषास्तेषां प्रबन्धो रचना यस्मिन्तत् एवंविधमर्थाद्यौवनमेव अस्मि -
न्लोके अनर्थानां व्रजः समूहस्तस्य वनं पुष्पवाटिका, यौवनात्तारुण्याद-
न्यत्किमपि नास्ति हि निश्चयेन 11 स्रग्धरा वृत्तम् " ॥ १० ॥
 
66
 
"
 
पूर्वश्लोके यौवनस्य सर्वानर्थकरत्वं प्रतिपाद्येदानीं तादृशं यौवनं प्राप्य यो
विक्रियां न व्रजति स धन्य इत्याह-
 
शृङ्गारमनीरदे विसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरता मुक्ताफलोदन्वति ॥
 
तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मी निधौ
 
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ५१ ॥
शृङ्गारेति ॥ यः कोऽपि कश्चित्पुरुषः शृङ्गार एव द्रुमो वृक्षस्तस्य नीरदे
पोषकत्वेन मेघरूपे, विसृमरो विसृत्वरो यः क्रीडारसस्तस्य स्रोतसि प्रवाहे
क्रीडारसजनके इत्यर्थः ॥ प्रद्युम्नः कामस्तस्य प्रियबान्धवे हितकारिणि ब-
न्धौ चतुरतैव मुक्ताफलानि तेषामुदन्वति समुद्रे, तज्जनके इत्यर्थः ॥
तन्व्याः स्त्रिया नेत्रे एव चकोरौ चकोरपक्षिणौ तयोः पर्वणि भवः पार्वणः
 
,
 
Digitized by Google