Proofing

This page has not been fully proofread.

शृङ्गारशतकम्
 
२.१
 
प्रोद्यदिति ॥ प्रोद्यन्तः प्रौढाः ये प्रियङ्गवः प्रियङ्गुवृक्षास्तेषां द्युतिं शोभां
बिभर्तीति द्युतिभृत् तस्मिन् प्रियङ्गुवृक्षशोभायुक्ते इत्यर्थः । तथा विदलन्तो
विकसन्तो ये कुन्दाः कुन्दवृक्षास्तेषु माद्यन्तो मदं प्राप्ताः द्विरेफा भ्रमरा य-
स्मिन् तस्मिन्, तथा विकसिताः उद्दामाः प्रौढा ये मन्दारा मन्दारवृक्षास्ते-
षां दाम माला, प्रालेयवातेन हिमयुक्तवायुना प्रचलं चञ्चलं विकसितो-
द्दाम मन्दारदाम यस्मिन् तस्मिन् एवंविधे काले क्षणमपि क्षणमात्रमपि तुहिनस्य
हिमस्य क्षोदावर्णानि कणा इति यावत् ॥ तेभ्यो रक्षतीति सा शीतनिवा-
रिणीत्यर्थः ॥ " चूर्णे क्षोदः समुत्पिञ्ज इत्यमरः " ॥ एवंविधा मृगाक्षी
मृगलोचना स्त्री येषां कण्ठे लग्ना संलग्ना नो, तेषां यूनां यामिनी रात्रिः आ-
यामो दैर्घ्यं तद्विशिष्टाः यामाः प्रहरा यस्या एवंविधा सती यमस्य सदनं
गृहं तेन समा तुल्या अत्यन्तदुःखकारिणीत्यर्थः ॥ याति गच्छति ॥ स्रग्ध-
रावृत्तम् 11 88 11
 
""
 
प्रियाया नासाग्रमौक्तिकं चन्द्रत्वेनोत्प्रेक्ष्य वर्णयति —
 
66
 
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥
अनङ्गसंजीवनदृष्टिशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥ ४७ ॥
सुधामय इति ॥ हे नायिके सुधामयोऽमृतमयः अतएव अनङ्गस्य कामस्य
संजीवने दृष्टिशक्तिर्दृष्टिसामर्थ्यं यस्य सः कामोद्दीपक इत्यर्थः ॥ एवंविधो-
पि चन्द्रः क्षयरोगस्य शान्त्यै शमाय नासाया नासिकाया यदग्रं तत्संबन्धि
यन्मुक्ताफलकं तस्य छलेन मिषेण ते मुखामृतं पिबतीवेत्यहं मन्ये इति शेषः ॥
66 उपजाति वृत्तम् " 118011
 
संसारसुखेच्छुना कांतासहवासोऽवश्यं कार्यो न तु संसारतरणेच्छुनेत्यमुम-
थं बोधयन्नाह -
 
संसारोदधिनिस्तारपदवी न दवीयसी ॥
 
अन्तरादुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ ४८ ॥
 
संसारेति ॥रे जन यदि अन्तरा संसारसमुद्रे दुस्तरा दुर्घटा मदिरेक्षणाः स्त्रियो
न स्युस्तर्हि संसारोदधेः संसारसमुद्रस्य निस्तारो निस्तरणं तस्य, पदवी मार्गः
दवीयसी दूरतरा नास्ति किन्तु समीपवर्तिन्येव [ संसारतवेति पाठे संसारेति
संबोधनम् ] तथा च सति वैराग्ये कांतासेवनं त्याज्यमसति तु 'तस्मिन् सं-
सारसुखेच्छुना कान्तासेवनमेव कार्यमिति भावः ॥" अनुष्टुब् वृत्तम्" ॥४८॥
 
Digitized by Google