शतकत्रयम् /81
This page has not been fully proofread.
२०
भर्तृहरिकृतं
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तऽशुकानि
'
व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥ ४४ ॥
चुम्बन्त इति ॥ कान्ताजनानां स्त्रीणां गण्डभित्तीः कपोलप्रदेशान् व्यक्तं
स्पष्टं चुम्बन्तः, तथा अलकवति कुटिलकुन्तलवति मुखे आनने सीत्कृता-
न्यादधानाः कुर्वन्तः, तथा उद्गताः कञ्जकाः चोलका येभ्यस्तेषु निष्कासित -
कञ्चुकेष्विति यावत् ॥ एवंविधेषु वक्षःसु हृदयेषु स्तनयोः कुचयोर्भरो भा -
रस्तस्मिन् पुलकानां रोमाञ्चानामुद्भेदमुद्गममापादयन्तः संपादयन्तः। तथा ऊरू-
न्सक्थीनि आकम्पयन्त ईषत्कम्पयन्तः, पृथु विस्तीर्णं यज्जघनतटं तस्मादं-
शुकानि वस्त्राणि स्रंसयन्तो निष्कासयन्त एवंविधा विटानां चरितमिव च-
रितं कुर्वन्तीति ते । विटा यथा चुम्बनादि चरितं कुर्वन्ति तथा चरितकारिण
इत्यर्थः ॥ तथाविधाः शैशिराः शिशिरसंबन्धिनो वाता वायवो वान्ति वह -
न्तीति ॥
"
स्रग्धरा वृत्तम् ॥ ४४ ॥
66
'केशानाकलयन् दृशौ मुकुलयन् वासो बलादाक्षिप-
नातन्वन्पुलकोद्गमं प्रकटयन्नङ्गेषु कम्पं गतैः ॥
वारंवारमुदारसीत्कृतकृतो दन्तच्छदान् पीडय -
प्रायः शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥ ४५ ॥
केशानिति ॥ केशान्कचानाकलयन्नितस्ततः परिभ्रामयन्, 'पक्षे धा-
रयन् ' दृशौ नेत्रे मुकुलयन्मीलयन्, 'पक्षे हस्तादिनाऽऽच्छादयन् ' वासो
वस्त्रं बलादाक्षिपन्नाकर्षयन्, स्पर्शादिना पुलकोद्गमं रोमाञ्चप्रादुर्भावमात-
न्वन्विस्तारयन्, अङ्गेषु शरीरावयवेषु गतैर्गमनैः कृत्वा कम्पं प्रकटयन्प्रक-
टीकुर्वन्, वारंवारं पुनः पुनः उदारं महत्सीत्कृतं सीत्कारशब्दं कुर्वन्तीति
ते कृतः एवंविधान् दन्तच्छदानोष्ठान् पीडयन् एवंविधः ' पक्षे चुम्बनादौ
दन्तक्षतैः पीडयन् ' संप्रतीदानीमेष प्रसिद्धः शैशिरः शिशिरर्तुसंबन्धी
मरुद्वायुः कान्तासु स्त्रीषु प्रायः बाहुल्येन कान्तायते कान्त इवाचरतीत्यर्थः ॥
कान्तो यथा केशाकर्षणादिकं करोति तथायमपि करोतीति भावः ॥
शार्दूलविक्रीडितं वृत्तम् " ॥ ४५॥
66
प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदानि ॥
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोदरक्षा मृगाक्षी
तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ४६ ॥
Digitized by Google