Proofing

This page has not been fully proofread.

शृङ्गारशतकम्
 
१९
 
संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दभाग्यः॥४२॥
अर्धमिति ॥ निशाया रात्र्या अर्ध यथाकथंचिन्नीत्वा पश्चात्सरभसे सातिवेगे
सुरते मैथुने य आयासः श्रमस्तेन खिन्नान्यतएव श्लथानि शिथिलीभूतान्यङ्गानि
यस्य सः । एवंभूतस्तथा प्रकर्षेणोद्भूताऽतएवासह्या सोढुमशक्या तृष्णा यस्य
सः। एवंभूतस्तथा मधुनो मद्यस्य मदे निरतस्तत्परो मधुमदयुक्त इत्यर्थः ॥ एवं-
विधः पुरुषः विविक्ते विजने एकान्ते इति यावत् हर्म्यपृष्ठे प्रासादोपरि-
भागे संभोगेन क्लान्ता ग्लानिं प्राप्ता या कान्ता स्त्री तस्या या शिथिला भुज-
लता बाहुलता तया आवर्जितमानीतं, ज्योत्स्नया चन्द्रिकाया भिन्नं मिश्रं
एवंविधं शारदं शरत्कालिकं सलिलं जलं कर्करीतः कर्कर्या " कर्कर्यालु-
र्गलंतिकेत्यमरः " " सार्वविभक्तिकस्तसिः " यो न पिबति स मन्दभाग्योऽस्ती-
ति शेषः ॥ शरदि सुरतायासखिन्नः सन्प्रासादोपरिभागे तथाविधकान्त-
याऽर्पितं जलं पिबति स नरो धन्य इति भावः ॥
66 स्रग्धरा वृत्तम्" ॥४२॥
क्रमप्राप्तं हेमन्तं वर्णयति-
 
हेमन्ते दधिदुग्धसर्पिरशनामाञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ॥
पीनोरुस्तऩकामिनीजनकृताश्लेषा गृहाभ्यन्तरे
 
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ४३ ॥
 
"
 
हेमन्त इति ॥ हेमन्ते हेमन्तर्ती गृहाभ्यन्तरे गृहमध्ये सुखं यथा स्या-
तथा ये शेरते निन्द्रां कुर्वन्ति ते धन्याः । कीदृशाः दधि च दुग्धं च सर्पि-
घृतं च तेषामशनं येषां ते तथा माजिष्ठं मञ्जिष्ठया रंजितं वासो वस्त्रं बिभ्रति
ते माजिष्ठवासोभृतः, तथा काश्मीरद्रवः केशरद्रवस्तेन सान्द्रं निबिडं दिग्धं
लिप्तं वपुर्येषां ते, तथा विचित्रैरनेकप्रकारै रतैः सुरतैः खिन्नाः, तथा पीनौ
पुष्टौ उरू विशालौ स्तनौ कुचौ येषां एतादृशाः ये कामिनीजनाः स्त्रीजना-
स्तैः कृत आश्लेष आलिङ्गनं येषां ते तथा ताम्बूलीदलं नागवल्लीदलं पूगः
क्रमुकफलं च ताभ्यां पूरितं मुखं येषां ते एवंविधाः " शार्दूलविक्रीडितं
वृत्तम् ॥ ४३ ॥
 
"
 
क्रमप्राप्तं शिशिरर्तुं वर्णयति द्वाभ्यां श्लोकाभ्याम् —
 
चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कःशुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ॥
 
Digitized by Google