शतकत्रयम् /79
This page has not been fully proofread.
१८
66
किंच ।
भर्तृहरिकृतं
असूचीसंसारे तमसि नभसि प्रौढजलद-
ध्वनिप्राये तस्मिन्पतति दृषदां नीरनिचये ॥
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ ४० ॥
असूचीति ॥ प्रौढो यो जलदो मेघस्तस्य ध्वनेः प्रायो बाहुल्यं यस्मिन्,
" प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपीति विश्वः " ॥ एवंविधे नभसि श्रावणे,
नभः खं श्रावणे नभा इत्यमरः " ॥ न विद्यते सूच्याः संसारः संसरणं य-
स्मिन्, अतिगाढे इत्यर्थः ॥ तस्मिन् प्रसिद्धे तमसि अन्धकारे दृषदां करको -
पलानां नीरेण जलेन सह निचये समूहे पतति सति इदं प्रसिद्धं कनकमिव
सुवर्णमिव कमनीयं सुन्दरं सौदामन्या विद्युल्लताया विलसितं स्फुरणं पथि-
वेव मार्गेष्वेव शोभने दृशौ यासां तासां स्त्रीणां मुदं हर्ष ग्लानिं क्लान्ति च
प्रथयति विस्तारयति ॥ प्रोषितानां सुदृशां विद्युत्प्रकाशे हर्ष तदभावे ग्लानिं
अथवा प्रियसहितानां मुदं तद्रहितानां ग्लानि चेत्युभयविधान्भावानेकस्मिन्नेव
मार्गे जनयतीत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ४० ॥
किंच ।
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्गयते ॥
जाताः शीतलशीकराश्च मरुतश्चात्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ४१ ॥
आसारेणेति ॥ धन्यानां पुण्यवतां प्रियासंगमे स्त्रीसंगमे दुर्दिनमपि मेघ-
च्छन्नदिवसोऽपि सुदिनतां याति प्राप्नोति बतेति हर्षे ॥ तदेव विवृणोति ॥
आसारेण धारासंपातेन हेतुना प्रियतमैः पतिभिर्हर्म्यतो गृहाद्वहिर्यातुं गन्तुं न
शक्यते, तथा शीतेन य उत्कम्पः कम्पनं तन्निमित्तं आयतदृशा विशालाक्ष्या
स्त्रिया गाढं समालिङ्गयते पतिरिति शेषः ॥ तथा शीतलाः शीकरा अम्बु-
कणा येषु ते अतएवात्यन्तं खेदं श्रमं छिन्दन्ति ते एवंविधा मरुतो वायवो जा -
ता उत्पन्ना इति ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ४१ ॥
क्रमप्राप्तां शरदं वर्णयति—
अर्ध नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः
प्रोद्भूतासह्यवृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥
Digitized by Google