Proofing

This page has not been fully proofread.

शृङ्गारशतकम्
 
यस्यां च ॥ विकसिता प्रफुल्लिता जातिर्मालतीलता यस्यां पक्षे केशादौ धा-
रणत्वेन विकसिता जातयो जातिपुष्पाणि यस्यामतएव पुण्यो मनोज्ञः
सुगन्धो यस्याम् ॥ पक्षे अङ्गादि सौगन्ध्यं तरुणी पक्षेऽपि तथैव बोध्यम् ॥
पुण्यं त्रिषु मनोज्ञे स्यादिति विश्वः ॥ पुनः कथंभूता उन्नता उच्चाः पीनाः
पुष्टाः पयोधरा मेघा यस्यां पक्षे उन्नती उच्चौ पानी पुष्टौ पयोधरौ स्तनौ
यस्या इति ॥ " उपचित्रावृत्तम् ॥ नवमे भवति गुरावुपचित्रा" ॥ ३७ ॥
किंच ।
 
वियदुपचितमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बा-
मोदिनो गन्धवाहाः ॥ शिखिकुलकलकेकारावरम्या
वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ३८ ॥
 
वियदिति ॥ प्रावृषि एते पूर्वोक्ताः पदार्थाः सुखिनमसुखिनं दुःखिनं वा सर्व
जनमुत्कण्ठयन्ति उत्कण्ठायुक्तं कुर्वन्ति ॥ एते के । उपचिताः पुष्टा मेघा
यस्मिन्तत् एवंविधं वियद्गगनम्, कन्दलिन्यो नवाङ्कुरयुक्ता भूमयः, नवा नूतनाः
कुटजाः कदम्बाश्च तेषामामोदः सुगन्धोऽस्ति येषु ते गन्धवाहा वायवः,
शिखिनां मयूराणां कुलं समूहस्तस्य कलो मन्द्रः केकारावः केकाशब्दस्तेन
रम्या मनोहरा वनान्ता अरण्यप्रदेशाश्चेति ॥ "मालिनी वृत्तम् " ॥ ३८ ॥
 
किंच ।
 
इतो विद्यद्वल्लीविलसितमितः केतकितरोः
स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
 
कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ॥ ३९ ॥
 
इत इति ॥ संभृतः पुष्टो रसः शृङ्गारादिरसो येषु ते एते पूर्वोक्ताः
पक्ष्मलदृशां स्त्रीणां विरहदिवसाः कथं यास्यन्ति गमिष्यन्ति । एते के ॥ इत
एकत: विद्युद्वया विद्युल्लताया विलसितम् । इत एकतः केतकितरोः केत-
किवृक्षस्य स्फुरन्प्रकाशमानो गन्धः सुगन्धः, इत एकत: प्रोद्यदुद्गच्छन्यो ज-
लदो मेघस्तस्य निनदो गर्जितं तस्य स्फूर्जितं स्फुरणम्, इत एकत: केकिनां
मयूराणां क्रीडासु कलकलरवो बहुभिः क्रियमाणः कलकलाख्यो ध्वनिश्वेति ॥
" शिखरिणी वृत्तम्" ॥ ३९ ॥
 

 
Digitized by
 
Google