शतकत्रयम् /77
This page has not been fully proofread.
१६
भर्तृहरिकृतं
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥ ३५ ॥
66
स्रज इति ॥ निदाघेन ग्रीष्मेणाऽर्ताः पीडिताः सुकृतिनः पुण्य-
वन्त एव एतत् पूर्वोक्तं सुखं अनायासेन यथास्यात्तथोपलभन्ते प्राप्नुवन्ति ॥
हि निश्चयेन ॥ एतत्किम् ॥ हृद्यो मनोहारि आमोदः सुगन्धो यासां ता एवं-
विधाः स्रजः पुष्पमालाः, व्यजनपवनस्तालवृन्तवायुः, "व्यजनं तालवृन्तक-
मित्यमरः " चन्द्रकिरणाश्चन्द्रमयूखाः, परागः पुष्परेणुः, परागः कौसुमे
रेणावित्यमरः " कासारः सरोवरम्, मलयजरजश्चन्दनरेणुः, विशदं स्वच्छं
सीधु मद्यम्, " मैरेयमासवः सीधुरित्यमरः " ॥ " मध्वासवः सीधुसुरेति ह -
लायुधश्च " ॥ शुचिः शुभ्रः सौधस्य राजगृहस्योत्सङ्ग उपरिभागः, प्रतनु
सूक्ष्मं वसनं वस्त्रम्, पङ्कजदृशः कमलनयनाः स्त्रियश्चेति ॥
" शिखरिणी
वृत्तम् " ॥ ३५ ॥
किंच ।
सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावकाम्भोजं मलयजरजश्चातिसुरभि ॥
art हृद्यामोदास्तदिदमखिलं रागिण जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ ३६ ॥
सुधाशुभ्रमिति ॥ तत्प्रसिद्धमिदं पूर्वोक्तमखिलं सर्वं रागिण्यनुरा-
गवति जने अन्तर्मनसि क्षोभं विकारं करोति पुनः विषयाणां संसर्गः सं-
पर्कस्तस्माद्विमुखे पराङ्मुखे वैराग्यवति जने इत्यर्थः ॥ न करोति ॥ इदं
किम् ॥ सुधया प्रासादलेपनद्रव्येण शुभ्रं स्वच्छं धाम गृहम्, स्फुरन्तो देदीप्य-
मानाः अमलाः स्वच्छाः रश्मयः किरणा यस्य स एवंविधः शशधरश्चन्द्रः,
प्रियायाः स्त्रिया वक्राम्भोजं मुखकमलम्, अतिसुरभि अतिसुगन्धि मलयजश्व -
न्दनस्तत्सम्बन्धि रजो धूलिः, हृद्यामोदा: मनोहारिसुगन्धा एवंविधाः स्रजः
पुष्पमालाश्चेति ॥ " शिखरिणी वृत्तम् ॥ ३६ ॥
क्रमप्राप्तां प्रावृषं वर्णयति पञ्चभिः श्लोकः-
-
तरुणीवैषा दीपितकामा विकसितजातिः पुण्यसुगन्धिः ॥
उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥ ३७ ॥
तरुणीवैषेति । एषा प्रावृटू, तरुणीव युवतिरिव कस्य पुरुषस्य हर्ष न
तनुते विस्तारयति अपि तु सर्वस्याऽपि हर्षं तनुते इत्यर्थः ॥ [ कुरुते इत्यपि
पाठः ] ॥ कथंभूता प्रावृटू तरुणी च ॥ दीपित उद्दीपितः कामो यया पक्षे
Digized by Google