Proofing

This page has not been fully proofread.

66
 
शृंगारशतकम् ।
 
१५
 
रोऽतिशयस्तस्य पाटञ्चराश्चोराः ॥ पाटलाकुसुमगन्धहारिण इत्यर्थः ॥
" चौरिकागारिकस्तेनदस्युतस्करमोषकाः ॥ प्रतिरोधिपरास्कन्दिपाटच्चरमलि-
म्लुचा इत्यमरः ॥ क्लान्तिः क्लमस्तस्य वितानो विस्तारस्तस्य तानवं
तनुत्वं कुर्वन्तीति कृतः, एवंविधाः श्रीखण्डशैलश्चन्दनपर्वतस्तत्सम्बन्धि-
नोऽनिला वायवो वान्ति वहन्ति ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ३२ ॥
 
किंच ।
 
सहकारकुसुमकेसरनिकर भरामोदमूर्च्छितदिगन्ते ॥
 
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ३३ ॥
 
सहकारेति ॥ सहकारस्याम्रवृक्षस्य कुसुमं पुष्पं तत्संबन्धिनः के-
सराः किंजल्कास्तेषां निकरः समूहस्तस्य भरोऽतिशयित आमोदः सुगन्धस्तेन
मूर्च्छिता व्याप्ता दिगन्ता यस्मिस्तस्मिन् मधुरं यन्मधु तेन विधुरा विकला म-
धुपा भ्रमरा यस्मिंस्तस्मिन् ॥ "वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिष्विति
त्रिकाण्डशेषः " ॥ एवंविधे मधौ बसन्ते कस्य पुरुषस्योत्कण्ठा न भवेदपितु
सर्वस्याऽपि भवेदित्यर्थः ॥ " आर्या वृत्तम् " ॥ ३३ ॥
 
ग्रीष्मेऽपि. हर्षकामयोर्वर्धकाः पदार्था भवन्तीति तत्पदार्थदर्शनपुरःसरं
क्रमप्राप्तं ग्रीष्मं वर्णयति श्लोकत्रयेण -
 
अच्छार्द्रचन्दनरसार्द्रकरा मृगाक्ष्यो धारा गृहाणि
कुसुमानि च कौमुदी च ॥ मन्दो मरुत्सुमनसः शुचि
हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ३४ ॥
 
अच्छाद्रेति ॥ ग्रीष्मे ग्रीष्मर्तौ एते प्रसिद्धाः पदार्थाः पुरुषस्य मदं हर्ष
" मदो रेतसि कस्तूर्या गर्ने हर्षेभदानयोरिति मेदिनी " ॥ मदनं कामं च
विवर्धयन्ति विस्तारयन्ति । एते के । अच्छः खच्छो य आर्द्रचन्दनस्तस्य र-
सेनाsद्र करौ यासां ता मृगाक्ष्यो मृगनयनाः स्त्रियः, धारागृहाणि जलयन्त्र-
गृहाणि, कुसुमानि पुष्पाणि, कौमुदी चन्द्रिका, मन्दः सुखस्पर्शो मरुद्वायुः,
सुमनसो मालतीलताः, शुचि शुभ्रं हर्म्यपृष्ठं चेति ॥ " वसन्ततिलका वृत्तम् "
॥ ३४ ॥
 
किंच ।
 
art हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः सीधु विशदम् ॥
 
Digitized by Google