शतकत्रयम् /75
This page has not been fully proofread.
१४
भर्तृहरिकृतं
मधुरिति ॥ अयं मधुर्वसन्तो मधुरैरपि कोकिलानां पिकानां कलकलैः शब्दः,
च पुनः मलयस्य मलयपर्वतस्य संबन्धिभिर्वायुभिः कृत्वा विरहिणः कामाग्निसं-
तप्तान् शरीरिणो देहिनः प्रणिहन्ति संतापयति ॥ इममेवार्थ सामान्यमुखेन
द्रढयति- विपदीति ॥ विपाद आपत्ती प्राप्तायां सुधाप्यमृतमपि विषायते विष-
मिवाचरति विषवद्धातयतीत्यर्थः ॥ हन्त इति खेदे ॥ " द्रुतविलम्बितं वृत्तम् ॥
द्रुतविलम्बितमाह नभौ भराविति तल्लक्षणात् " ॥ ३० ॥
आवासः किल किंचिदेव दयितापार्श्वे विलासालसः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥
गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः शितांशोः कराः
केषांचित्सुखयन्त्यवेहि हृदये चैत्रे विचित्राः क्षपाः ॥ ३१ ॥
आवास इति ॥ हे जन चैत्रे मासि विचित्रा: क्षपा रात्रयः केषांचित हृदये
सुखयन्ति सुखं कुर्वन्तीत्यवेहि जानीहि ॥ क्षपाणां वैचित्र्यं दर्शयति-यासु
क्षपासु दयितायाः स्त्रियाः पार्श्वे किंचिद्विलासेनालसो मन्दः आवासो वसतिः
किंचिदेव भवतीति शेषः ॥ एवमुत्तरत्र ॥ किलेति प्रसिद्धौ ॥ एवेति वाक्य-
पूरणे ॥ कर्णे कोकिलकामिनीनां कोकिलस्त्रीणां कलरवो मधुरध्वनिः, लतानां
मण्डपः स्मेरः प्रफुल्लितः, "प्रफुल्लोत्फुल्लसंफुल्लोच्छुसितानि विजृम्भितम् ॥
स्मेरं विनिद्रमुनिद्रविमुद्रहसितानि चेति हेमचन्द्रः " ॥ कतिपयैः सत्कविभिः समं
गोष्ठी संलापः ॥ "गोष्ठी सभासंलापयोस्त्रियामिति मेदिनी " ॥ सितांशोश्च-
न्द्रस्य कराः किरणाः सेव्या भवन्ति ॥ "शार्दूलविक्रीडितम् वृत्तम्" ॥३१॥
किंच ।
पान्थरस्त्रीविरहानलाडुतिकथामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥
अप्येते नवपाटलापरिमलप्राग्भारपाटञ्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ३२ ॥
पान्थेति ॥ अधुना वसन्तकाले इत्यर्थः ॥ पान्थस्य पथिकस्य स्त्री
तस्या विरह एवानलोऽग्निस्तस्मिन्नाहुतिर्हवनं तस्याः कथा तामातन्वती वि-
स्तारयन्ती माकन्देषु आम्रवृक्षेषु ॥ " माकन्दः सहकारेऽस्त्रीति मेदिनी " ॥
"आम्रश्वतो रसालोसौ सहकारोतिसौरभ इत्यमरच " ॥ मञ्जरी पिकाङ्गनाभिः
कोकिलस्त्रीभिः सोत्कण्ठं यथा स्यात्तथा आलोक्यते ॥ अपि च एते प्रसिद्धाः
नवा चासौ पाटला पाटलिवृक्षस्तत्सम्बन्धी परिमलः सुगन्धस्तस्य प्राग्भा-
Digitized by Google