Proofing

This page has not been fully proofread.

शृङ्गारशतकम् ।
 
१३
 
यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रैखत्काञ्चीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः॥ २८ ॥
संसारे इति ॥ यदि अस्मिन्नसारे निःसारे संसारे प्रकर्षेणोद्यनुदयं प्राप्तो
य इन्दुश्चन्द्रस्तस्य द्युतिः कान्तिस्तस्या निचय: समूहस्तं बिभ्रति धारयन्ति ताः,
अम्भोजनेत्राः कमलनयनाः, प्रेखन शब्दायमानः काञ्चीकलापो यासां ताः,
स्तनयोः कुचयोर्भरो भारस्तेन विनमन्नम्रो मध्यभागो यासामेवंविधा एता-
स्तरुण्यस्त्रियो न स्युस्तार्हं अमलधियो निर्मलमतयः पुरुषाः कुनृपतिर्दुष्टराजा
तस्य भवनद्वारं गृहद्वारं तस्य सेवा शुश्रूषा तस्या अवलम्ब आश्रयस्तस्य व्या-
सङ्गोऽभ्यासस्तेन ध्वस्तं गलितं धैर्य यस्यैतादृशं मानसमन्तःकरणं कथं केन
प्रकारेण संनिदध्युः धारयेयुः समाहितमनस्का भवेयुरित्यर्थः ॥ कुत्सितराज-
सेवादुःखेन विमनस्काः पुरुषा उक्तविधतरुणीसेवनेन स्वस्थचित्ता भवन्तीति
भावः ॥ " स्रग्धरा वृत्तम् ॥ २८ ॥
 
वसन्तप्रादुर्भावे सर्वेषां कामोद्दीपकपदार्थगुणानां प्रादुष्करणं भवतीति
वक्तुं वसन्तं वर्णयति पञ्चभिः श्लोकः-
 
परिमलभृतो बाताः शाखा नवाङ्कुरकोटयो
 
मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ॥
विरलसुरतस्वेदोद्द्वारा वभूवदनेन्दवः
 
प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ॥ २९ ॥
 
परिमलेति ॥ मधौ वसन्तर्तौ प्रसरति प्रकटिते सति कस्य पदार्थस्य
गुणानामुदयः प्रादुर्भावो न जातः अपि तु सर्वेषामपि भवतीत्यर्थः ॥ ते पदार्थाः
के तानाह । वाता वायवः परिमलं सुगन्धं बिभ्रति ते एवंविधा भवन्तीति शेषः ॥
एवमुत्तरत्रापि ॥ तथा शाखाः शिफाः ॥ " शाखा शिफावरोहः स्यादित्य-
मरः " ॥ नवाङ्कुराणां कोटयो यासु ता एवंविधाः, पिकपक्षिणां कोकिलप-
क्षिणां वाचः मधुरं यद्विरुतं शब्दितं तेन उत्कण्ठा यासु ता अतएव प्रियाः,
तथा रात्र्यां विरलः स्वल्पः सुरते स्वेदो घर्मस्तस्योद्गारः प्रादुर्भावो येषु ते ॥
अत्र पाठान्तराणि मनोरमाणि न भवन्तीति कृत्वा त्यक्तानीति बोध्यम्
वधूवदनान्येवेन्दवश्चन्द्राः इति ॥ " हरिणी वृत्तम्" ॥ २९ ॥
 
किंच 1
 
मधुरयं मधुरैरपि कोकिलाकलकलैर्मलयस्य च वायुभिः ॥
विरहिणः प्रणिहन्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥३०॥
 
Digitized by Google