Proofing

This page has not been fully proofread.

१२
 
भर्तृहरिकृतं
 
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
योवल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ २६ ॥
सन्मार्गे इति ॥ धृतिं धैर्यं मुष्णन्ति चोरयन्तीति धृतिमुषः एते लीला-
वतीनां विलासवतीनां स्त्रीणां दृष्टिबाणा नयनशराः पुरुषस्य हृदि हृदये यावन्न
पतन्ति तावदेव पुरुषः सन्मार्गे आस्ते, तावदेवेन्द्रियाणां प्रभवति समर्थो
भवति, स्वाधीनेन्द्रियो भवतीत्यर्थः । तावदेव निन्द्यकर्मणि लज्जां विधत्ते
धारयति, निन्द्यं कर्म नाचरतीत्यर्थः ॥ तावदेव विनयमपि नम्रतामपि समा-
लम्बते आश्रयते ॥ अनुद्धतो भवतीत्यर्थः ॥ कीदृशा दृष्टिपाताः ॥ भ्रूरेव
चापो धनुस्तेनाकृष्टाः पश्चान्मुक्तास्त्यक्ताः ॥ पुनः कीदृशाः श्रवणपथं कर्ण-
मार्ग कर्णपर्यंतमिति यावत् ॥ गताः प्राप्ताः ॥ पुनः कीदृशाः ॥ नीलानि
पक्ष्माणि पुंखस्थानीयानि येषु ते ॥ " स्रग्धरा वृत्तम् " ॥ २६ ॥
 
अमृतमयमपि स्त्रीमुखं परिणामे विषसदृशं भवतीति किंपाकफलदृष्टान्तेन
दर्शयन्नाह -
 
यदेतत्पूर्णेन्दुद्यतिहरमुदाराकृतिधरं मुखानं तन्वयाः किल
वसति यत्राधरमधु ॥ इदं तत्किपाकद्रुमफलमिदानीमति-
रसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ २७ ॥
यदेतदिति ॥ पूर्णेन्दुः षोडशकलात्मकश्चन्द्रस्तस्य द्युतिं कान्ति हरतीति
तथा, पूर्णचन्द्रसदृशमित्यर्थः । उदारा सरला या आकृतिस्तस्या घरं, "दक्षिणे
सरलोदारावित्यमरः" यदेतत्तन्वङ्गयाः कृशाङ्गयाः स्त्रियो मुखाब्जं मुखकमल-
मस्ति, यत्र मुखाब्जे अधरमधु अधरामृतं वसति तिष्ठति किल निश्चयेन,
तदिदं मुखाब्जं किंपाको महाकालसंज्ञको द्रुमो विषवृक्षस्तस्य फलमस्ति
" किंपाकः स्यान्महाकाल इति हलायुधः " तथापीदानीमुपभोगक्षम-
यौवनसमयेऽति अत्यन्तं रसो गुणोऽनुरागो वा यस्मिन्नेवंविधं भवति परंतु
अस्मिन्पूर्वोक्ते काले यौवनसमये व्यतीतेऽतिक्रान्ते सति असुखदं दुःखदं विष-
मिव भवति [ इदं तावदित्यादि पाठान्तरं त्वप्रयोजकत्वात्यक्तम् ] तथा च
स्त्रीणामतिरम्यमपि मुखाब्जादिकं सर्वमवस्थाभेदेन सुखदं दुःखदं च भवती-
ति भावः "शिखरिणी वृत्तम्" ॥ २७ ॥
 
इदानीमस्मिन्संसारे दुष्टराजद्वारसेवाखिन्नमानसाः पुरुषास्तरुणास्त्रियो ऽव-
लम्बनेन स्वस्थचित्ता भवन्तीत्याह-
 
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब-
व्यासङ्गध्वस्तधैर्य कथममलधियो मानसं संनिदृद्ध्युः ॥
 
Digitized by Google