शतकत्रयम् /72
This page has not been fully proofread.
शृङ्गारशतकम् ।
११
स्त्रीणां स्वभावसिद्धाः कटाक्षादयो भावाः भूषणवच्छोभादायका आयुधव-
त्पुरुषाणां हृदयवेधकाश्च भवन्तीत्याह-
अचातुर्याकुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो
लज्जितांताच हासाः ॥ लीलामन्दं प्रस्थितं संस्मितं
च स्त्रीणामेतद्भूषणं चायुधं च ॥ २४ ॥
भ्रूचातुर्येति ॥ भ्रुवोश्चातुर्य तेनाऽऽकुञ्चितानि संकुचितान्यक्षीणि येषु
ते ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षचिति षच् ॥ कटाक्षा अपाङ्गदर्शनानि,
स्निग्धाः प्रेमयुक्ताः वाचो वचनानि, लज्जितो लज्जायुक्तों तो मध्यो येषां ते
लज्जागर्भिता इत्यर्थः ॥ हासा : हास्यानि, लीलया मन्दं प्रस्थितं गमनं,
सम्यक् स्मितमीषद्धास्यं च एतत्पूर्वोक्तं सर्वं स्त्रीणां भूषणमलङ्करणमायुधं
शस्त्रं च भवति ॥ " शालिनी वृत्तम् " ॥ शालिन्युक्ता तौ तगौ गोऽब्धि
लोकैरिति तल्लक्षणात् ॥ २४ ॥
तारुण्यप्रादुर्भावसमये स्त्रीणां ये ये भावा आविर्भवन्ति ते ते सर्वे रम्या
एवेत्याह-
स्मितं किंचिद्व सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥
गतीनामारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिह नहि रम्यं मृगदृशः ॥ २५ ॥
स्मितमिति ॥ वत्रे मुखे किंचिदीषत्स्मितं हास्यम्, सरलो ऽवक्रश्चासौ तर - .
लचञ्चलश्चैतादृशो दृष्टयाः विभव ऐश्वर्यम्, अभिनवा या विलासोक्तयः शृङ्गार-
चेष्टायुक्त भाषणानि तैः सरसो रसयुक्तो वाचां वाणीनां परिस्पंदो रचना,
" रचना स्यात्परिस्पन्द इत्यमरः " ॥ किसलयितो नवाङ्करितो लीलानां परि-
कर आरम्भः समूहो वा यस्मिन् " भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः ॥ प्रगा-
ढगात्रिकाबन्धे विवेकारम्भयोरपीति विश्वः " ॥ एवंविधो गतीनां गमनानामा-
रम्भः, इह एतेषु पदार्थेषु मध्ये तारुण्यं यौवनं स्पृशन्त्या मृगदृशो मृगनय-
नायाः किं रम्यं नहि अपि तु सर्वं रम्यमस्तीत्यर्थः ॥ " शिखरिणी वृत्तम्"॥२५॥
पुरुषो यावत्सुन्दरीणां दृग्विशिखैर्विद्धो न भवति तावदेव सन्मार्गादिक-
मालम्बत इत्याह-
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधन्ते विनयमपि समालम्बते तावदेव ॥
Digitized by Google