शतकत्रयम् /71
This page has not been fully proofread.
भर्तृहरिकृतं
समूहस्तेन परिकीर्णा व्याप्ता इव दिशो भवन्ति ॥ चतुर्थचरणस्थपाठान्तराणि
त्वसंबद्धत्वात्त्यक्तानि ॥ स्त्रीष्वत्यन्तासक्तस्य सर्वत्र तन्मुखादिस्फुरणं तत्सदृश-
वस्तुस्फुरणं च भवतीति भावः ॥ " शिखरिणी वृत्तम्" ॥ २१ ॥
सुन्दरस्त्रीणां स्वभावसिद्धं भूषणमाह-
वक्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वीं नितम्बस्थली
वाचो हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ २२ ॥
वक्रमिति ॥ चन्द्रं विडम्बयति तच्छीलम् चन्द्रानुकारि तत्सदृशमिति
यावत् ॥ एवंविधं वक्रं मुखम् ॥ पङ्कजानां कमलानां परीहास उपहासस्तस्मि-
न्क्षमे समर्थे तदधिकशोभाशालिनी इत्यर्थः ॥ एवंविधे लोचने ॥ स्वर्ण सुव-
र्णमपाकरोति दूरीकरोति तच्छीलो जयशील इति यावत् । एवंविधो वर्णः ॥
अलिनीं भ्रमरिणीं जयति तच्छीलो भ्रमरसदृश इति यावत् । एवंविधः कचानां
केशानां चयः समूहः ॥ इभानां गजानां कुम्भी गण्डस्थले तयोर्विभ्रमः शोभा
"अथ विभ्रमः॥ शोभायां संशये हावे इति मेदिनी" तां हरतस्तो गजगण्ड-
सदृशावित्यर्थः॥ वक्षोजौ स्तनौ ॥ गुर्वी स्थूला नितम्बस्थली कटिपश्चाद्भागः ॥
हारि मनोहारि वाचो मार्दवं मृदुत्वम् ॥ एतत्पूर्वोक्तं सर्व युवतिषु तरुणस्त्रीषु
स्वाभाविकं नैसर्गिकं मण्डनं भूषणमस्ति । एते सर्वे पूर्वोक्ताः स्त्रीषु स्वभाव-
सिद्धा गुणाः सन्तीति भावः॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ २२ ॥
एकैव स्त्री अनुरक्तिविरक्तिभ्याममृतवत्सुखदात्री विषवद्दुःखदात्री च भवती-
त्याह-
नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम् ॥
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ २३ ॥
नामृतमिति ॥ एकां नितम्बिनीं स्त्रियं मुक्त्वा त्यक्त्वा किंचिदपि अमृतं नास्ति
विषमपि नास्ति, किंतु सैव स्त्री रक्ताऽनुरक्ता सती अमृतलताऽमृतवल्लरी
भवति, विरक्ता सती विषवल्लरी विषलता भवति ॥ प्रसिद्धममृतममृतं न
भवति तद्वत्प्रसिद्धं विषं विषं न भवति, किंतु एकैव स्त्री अनुरक्तिविरक्ति-
भ्याममृतरूपा विषरूपा च भवतीति भावः । "अनुष्टुब् वृत्तम्" ॥ २३ ॥
Digitized by
Google