शतकत्रयम् /70
This page has not been fully proofread.
शृङ्गारशतकम् ।
Sभिलाषपूर्वक इति यावत् ॥ एवंविध उद्यम उद्योगो येषां तेषाम् ॥ सर्वदा-
ऽभिलाषपूर्वक नितम्बिन्युपस्थनिहितहस्तानामित्यर्थः ॥ कालो यात्विति द्विती-
या गतिः ॥ इह संसारेऽसति तत्त्वज्ञाने सर्वदा नितम्बिनीसेवनं तत्त्वज्ञानव-
त्सुखजनकमिति तात्पर्यम् ॥ " स्रग्धस वृत्तम् " ॥ १९ ॥
विद्वानपि पुरुषः स्त्रियं दृष्ट्वा मोहितो भवतीत्याह —
कान्तेत्युत्पललोचनेति विपुलश्रोणी भरेत्युत्सुकः
पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभूरिति ॥
दृष्ट्वा मुह्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षामसिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ २० ॥
कान्तेति ॥ अहो इत्याश्चर्ये विद्वानपि दोषज्ञोऽपि पुरुषः प्रत्यक्षामक्षिगो-
श्वरभूतामसिपुत्रिकां प्राणान्तपर्यन्तं वेधकत्वेन छुरिकातुल्यामपि स्त्रियं दृष्ट्वा
मुह्यति मोदते च ॥ ततस्तद्विषये उत्सुक उत्कण्ठितः सन् कान्तामनोहरेति,
उत्पललोचना कमललोचनेति, विपुलो विस्तृतः श्रोणीभरः कटिप्रदेशो यस्याः
सेति, पीनौ पुष्टावुत्तुङ्गावुन्नतौ पयोधरौ स्तनौ यस्याः सेति, सुष्ठु मुखाम्भोजं
मुखकमलं यस्याः सेति, सुष्ठु शोभने भ्रुवौ भ्रुकुटी यस्याः सेति, एवं प्रस्तौति
अभिरमते रममाणो भवति च । एतत् मोहस्य दुश्चेष्टितं दुर्व्यापारोऽस्ति ॥
अनेन विद्वानपि मोहेन स्त्रीलम्पटो भवतीति सूच्यते ॥ " शार्दूलविक्रीडितं
"
वृत्तम् ॥ २० ॥
शृङ्गारालम्बनभूतां स्त्रियं वर्णयति पञ्चभिः श्लोकैः—
कचित्सुभ्रभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥
नवोढानामेतैर्वदनकमलैर्नेत्रलसितैः
स्फुरन्नीलानानां प्रकरपरिकीर्णा इव दिशः ॥ २१ ॥
कचिदिति ॥ कचिच्छोभनो भ्रूभङ्गो भ्रुकुटीचालनं येषु तैः कचिदपि च
लज्जां परिगतैः प्राप्तैः ॥ लज्जापरिणतैरिति पाठे लज्जया परिणतैर्नत्रैः कचि-
त्या भयेन त्रस्तैस्त्रासं प्राप्तैः कचिदपि च लीलानां हावभावादीनां विल-
सितं येषु तैः कचिन्नेत्राणां लसितं विलासो येषु तैः, [नेत्रचलितैरिति पाठे
चलितानि नेत्राणि येषु तैः ] " वाहिताग्न्यादित्वाच्चलितशब्दस्य परनिपातः ॥
[ यद्वा नेत्राणां चलितं चलनं येषु तैः ] ॥ भावे क्तः " एतादृशैरेतैर्नवोढानां स्त्रीणां
वदनकमलैर्मुखकमलैः कृत्वा स्फुरन्ति नीलाब्जानि नीलकमलानि तेषां प्रकरः
Digitized by
Google