Proofing

This page has not been fully proofread.

भर्तृहरिकृतं
 
इत्यत्र पाठान्तराणि त्वनुपयुक्तत्वात्यक्तानि ॥ यतो वयं विकसितानि नयनानी-
न्दीवराणि कमलानीवेन्दीवराणि तैरवलोकयन्ति तासाम् ॥ नयनेन्दीवरेत्यत्रापि
पाठान्तराण्यनुपयुक्तत्वात्त्यक्तानि । प्रेयसीनां स्त्रीणां रूपं आक्रम्याक्रम्य झटिति
जरया यावन्न लुप्यते छिद्यते तावत्तासां सद्म गृहं गच्छाम एव ॥ अनेन वृ-
द्धत्वं प्राप्तस्यापि पुरुषस्य तृष्णाशान्तिर्नैव भवतीति सूचितमिति भावः "स्र-
ग्धरा वृत्तम् । म्रुन्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमिति" तल्लु-
क्षणात् ॥ १७ ॥
 
कामोद्दीपकमेघादिदर्शनेन प्रियाविरहखिन्नानां पथिकानां स्थितिमाह ——
उपरिघनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ॥
 
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ॥ १८ ॥
उपरीति ॥ उपर्युपरिष्टात् घनं निबिडं घनपटलमभ्रपटलम्, तिर्यक्
तिर्यक्प्रदेशे नर्तिता मयूरा येषु ते गिरयः पर्वता अपि सन्ति, क्षितिरपि पृथ्व्यापि
कन्दलैर्नवाङ्कुरैर्धवला सुन्दरी ॥ " धवलागवि ॥ वृषश्रेष्ठे पुमान्वाच्यलिङ्गः
शुक्ले च सुन्दर इति मेदिनी " अस्ति, अतः पथिको दृष्टिं क यापयतु प्रापयतु
विनोदयत्विति यावत् ॥ तस्मात्प्रेयसीसहवास एव सुखहेतुारीत भावः "आर्या
वृत्तम् ॥ १८॥
 
"
 
इह संसारे पण्डितानां द्विधा कालयापनं भवतीत्याह-
 
संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कदाचित् ॥
नोचेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसंसर्गिणीनां
 
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यमानाम् ॥ १९ ॥
संसारे इति । अस्मिन्नसारे सारांशरहिते, परिणतिः परिणामस्तत्र तरले
चञ्चले विनाशिनीत्यर्थः ॥ संसारे पण्डितानां द्वे गती मार्गौ दशे वा भवतः ॥
" गतिः स्त्रीमार्गदशयोरिति मेदिनी " ॥ द्वे के ॥ तत्त्वज्ञानमेवामृताम्भो-
ऽमृतोदकं तस्मिन्प्लवोऽवगाहनम् ॥ [श्रुत इत्यपि पाठेऽपि स एवार्थः ] ॥ तस्मि -
न्विषये लुलिता लुठिता धीर्बुद्धिर्येषां तेषां कालो यात्वित्येका गतिः ॥ नोचेत्तत्त्व-
ज्ञानं न चेत् स्तनौ कुचौ जघनं कटिपुरोभागश्च तेषां घनो निबिडोय आभोगः
परिपूर्णता तस्य संसर्गो विद्यते यासाम् ॥ [ भराभोग इत्यपि कचित्पाठः ] ॥
तासां मुग्धाङ्गनानां सुन्दरस्त्रीणां स्थूलानि यान्युपस्थानि तान्येव स्थल्यः प्रदे-
शास्तासु स्थगितः स्थिरो यः करतलस्तस्य स्पर्शस्तस्मिन्लोलस्तृष्णासहितो-
 
Digitized by Google