शतकत्रयम् /68
This page has not been fully proofread.
शृङ्गारशतकम् ।
णाहिनि विस्तीर्णे, कुङ्कुमेनार्द्रे, कान्तायाः पयोधरतटे स्तनतटे वक्ष उरो
निधाय अर्थात्स्त्रिया एव भुजावेव पञ्जरस्तन्मध्यवर्ती सन् क्षणं क्षणमात्रं लब्धा
निद्रा येन एतादृशः सन् क्षपां रात्रिं क्षपयति नयति स धन्यः ॥ अ-
स्मिन्संसारे ख्यालिङ्गनपूर्वकं शयनमेवात्यन्तसुखहेतुरिति भावः ॥ " वसन्त-
तिलकावृत्तम् " ॥ १५ ॥
निरतिशयरूपवतीं स्त्रियं दृष्ट्वा मोहितस्य तामलभमानस्य कस्यचित्पुरुषस्य
तद्दौर्लभ्यसूचिकामुक्तिमाह-
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधुवनमनास्वादितरसम् ॥
अखण्डं पुण्यानां फलमिव भवद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यत इति ॥ १६ ॥
अनाघ्रातमिति ॥ न आघातं घ्राणविषयीकृतं पुष्पं कुसुमम् । न केना-
प्यास्वादितमित्यर्थः ॥ कररुहैर्नखैरलून मच्छिन्नं किसलयं पल्लवः केनाप्यस्पृ-
ष्टमम्लानमित्यर्थः ॥ "पल्लवोऽस्त्री किसलयमित्यमरः " अनाविद्धं वेधरहितं
रत्नम्, तेजसा किंचिदपि न हीनमित्यर्थः । न आस्वादितो रसो यस्य तत् मधु-
वनं मधुररसवनम्, न केनाप्युपभुक्तमित्यर्थः ॥ पुण्यानामखण्डं फलमिव अ-
नघं दोषरहितं भवत्याः रूपम्, " सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः " इह संसारे
कं भोक्तारं उपस्थास्यते संगमिष्यते मित्रीकरिष्यते वा इत्यहं न जाने ॥
" उपाद्देवपूजेत्यादिना संगतिकरणे मित्रीकरणे वा आत्मनेपदम् " ॥ एतस्य रू-
पस्य कोवा भोक्ता भविष्यतीति नाहं जाने इत्यर्थः ॥ " शिखरिणी वृत्तम् " १६
तृष्णाया दुर्जयत्वमाह—
राजन् तृष्णाम्बुराशेर्न हि जगति गतः कञ्चिदेवावसानं
कोवाऽर्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागः ॥
गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीना-
माक्रम्याक्रस्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ १७ ॥
राजन्निति ॥ हे राजन् जगति लोके तृष्णारूपो योंऽबुराशि: समुद्रस्तस्या-
वसानमन्तं पारमिति यावत् ॥ कश्चिदपि नहि गतः ॥ अतः प्रभूतैः प्रचुरै-
रथैः कोवाऽर्थः किं प्रयोजनम् । न किमपीत्यर्थः ॥ प्रभूतेऽर्थे सत्यपि तृष्णाया
अशान्तेरिति भावः ॥ तथा स्ववपुषि स्वशरीरे गलिते शिथिलप्राये सति यौवने
सानुरागः प्रीतियुक्तो भवति ॥ तृष्णायाः शान्त्यभावादित्यर्थः ॥ सानुराग
Digitized by Google