शतकत्रयम् /67
This page has not been fully proofread.
भर्तृहरिकृतं
भूधरनितम्बस्य स्त्रीनितम्बस्य चेत्युभयोरपि सुखहेतुत्वात्तयोर्मध्ये आत्य -
न्तिकसुखहेतुत्वं कस्येत्याशयेन पृच्छति-
युग्मम् । मात्सर्यमुत्सार्य विचार्य कार्यमार्याः सम-
र्यादमिदं वदन्तु ॥ सेव्या नितम्बाः किमु भूध-
राणामुत स्मरस्मेरनितम्बिनीनाम् ॥ १३ ॥
.
मात्सर्यमिति ॥ हे आर्याः कार्याकार्यविचारनिपुणाः ययं मात्सर्य परो-
त्कर्षासहनमुत्सार्य त्यक्त्वा कार्यमवश्यकर्तव्यं विचार्य समर्यादं शास्त्रीयमर्या-
दानुलङ्घन पूर्वकमिदं वक्ष्यमाणं वदन्तु ब्रुवन्तु ॥ इदं किम् ॥ लोकैर्भूधराणां
पर्वतानां नितम्बाः कटकाः " कटकोऽत्री नितम्बोऽद्रेरित्यमरः " सेव्याः
सेवनीयाः किमु उताथवा स्मरः कामः स्मेर ईषद्धास्य तद्युक्तानां नितम्बिनीनां
स्त्रीणां नितम्बाः कटिपुरोभागाः सेव्या इति । " उपजातिर्दृषम्" ॥ १३॥
अधिकारभेदेनोभयोरपि सेव्यत्वमित्युत्तरमाह -
किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापै-
यमपि पुरुषाणां सर्वदा सेवनीयम् ॥
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिनं यौवनं वा वनं वा ॥ १४ ॥
किमिति ॥ इह लोके बहुभिरनेकैर्युक्तत्या शून्या रहितास्तैस्तैः प्रलापैर-
नर्थकवचनैः किम् ॥ उक्तैरिति पाठे उक्तैः कथितैरित्यर्थः ॥ पुरुषाणां पुरुषैः
द्वयमपि द्वयमेव सर्वदा सेवनीयं सेव्यम् ॥ द्वयं किम् । अभिनवो यो मद-
तारुण्यगर्वस्तत्संबन्धि लीला भ्रुकुव्यादिचालनं तेन लालसमौत्सुक्यं यस्मिन्,
स्तनयोः भरोऽतिशयस्तेन परिखिन्नं परिक्किष्टं सुन्दरीणां यौवनं तारुण्यं वा
अथवा वनमरण्यं वेति ॥ असति वैराग्ये यौवनवत्यः स्त्रियः सेव्याः सति
तु तस्मिन्वनं सेव्यमवस्थाभेदेनोभयोरपि सुखहेतुत्वादिति भावः ॥
66 मा-
लिनी वृत्तम् " ॥ १४ ॥
यस्तरुणीभुजालिङ्गितः सन् रात्रौ शेते स धन्य इत्याह-
मत्तेभकुम्भपरिणाहिनि कुङ्कुमा कान्तापयोधर-
तटे रसखेखिन्नः ॥ वक्षो निधाय भुजपञ्जरमध्य-
वर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ १५ ॥
मत्तेभेति ॥ यः पुरुषः रसः शृङ्गारादिस्तत्सेवनजन्यो यः खेदस्तेन खिन्नः
श्रान्तः सन् मत्तो मदोन्मत्तो य इभो गजस्तस्य कुम्भो गण्डस्थलं तद्वत्परि-
Digitized by Google